२२४ आर्यब्राह्मणम्
विद्रथं च ॥ ६.१.६.५ ॥
यो न इदमिदं पुरा (सा. ४००) इत्यत्रैकं साम। होवाहाइ । योनः (आ. गा. २. ६. ७०) इति क्रुष्टद्वितीयादिकं विद्रथम् एतन्नामधेयम् ।। ५ ॥
अभ्रातृव्यं च ॥ ६.१.६.६ ॥
अभ्रातृव्यो अना त्वम् (सा. ३९९) इत्यत्रैकं साम । हाउ (त्रिः) हुवेविराजंस्वराज्यम् इत्यादि अभ्रातृव्योअनात्वम् (आ. गा. २.६.७१) इति द्वितीयक्रुष्टादिकम् अभ्रातृव्यम् अभ्रातृव्यशब्दयुक्तमेतन्नाम धेयं साम ।। ६ ॥
रैवते द्वे । रेवत्यो वा ॥ ६.१.६.७ ॥
रेवतीर्नः सधमाद (सा. १५३) इत्यत्र सामद्वयम् । हाउरेवा । तीर्णाः (आ. गा. २. ६. ७२)इति क्रुष्टद्वितीयादिकम् । रा । वताइः । नाः । इह । औहोहो (आ. गा. २. ६.७३)इति क्रुष्टद्वितीयादिकम् । एते द्वे रैवते रेवतीशब्दयुक्ते । अथवा रेवत्यः रूढिनामैतत् । अत एव बहुत्वम् ।। ७ ।।
शाक्करवर्णं च ॥ ६.१.६.८ ॥
उच्चा ते जातमन्धसः (सा. ४६७) इत्यत्रैकं साम । एउच्चा (आ. गा. २. ६. ७४) इति क्रुष्टद्वितीयादिकं शाक्वरवर्णम् ॥ ८ ॥
नित्यवत्साश्च ॥ ६.१.६.९ ॥
अया रुचा हिरण्या (सा. ४६३) इत्यत्रेकं साम । एआया (आ. गा. २. ६. ७५)इति क्रुष्टद्वितीयादिकं नित्यवत्साः ।। ९ ।।
वसिष्ठस्य च रथंतरम् ॥ ६.१.६.१० ॥
अभि त्वा शूर नोनुमः (मा. २३३) इत्यत्रैकं साम ।