पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः


त्रिषंधि च ॥६.१.६.१॥

त्वमिन्द्र प्रतूर्तिषु (सा. ३११) इत्यत्रैक साम। औहोइत्वमिन्द्र- प्रतूर्तिषू ए (आ. गा. २. ६. ६६) इति द्वितीयतृतीयादिकं त्रिषधि संधित्रयोपेतम् । प्रथमपादे एत्यन्त एकः संधिः । द्वितीयपादान्तः [द्वितीयः ।। परम उत्तमर्धर्चा न्त्योऽ]ऽन्यः । एवमेते त्रयः संधयः । त्रिपंधीति संहितायां पूर्वपदात् (पा. ८. ३. १०६ ) इति षत्वम् ।। १ ।।

यज्ञसारथि च ॥६.१.६.२॥

बण्महाँ असि मूर्य (सा. २७६) इत्यत्रैकं साम । एबाण्मा । हाँ असिमरिया (आ. गा. २. ६.६७) इति क्रुष्टद्वितीयादिकं यज्ञसारथि यज्ञस्य प्रणयनेन सारथिभूतम् एतन्नामधेयम् ॥ २ ॥

वृषा च ॥६.१.६.३॥

इमं वृषणं कृणुतैकमिन्माम् (सा. ५९१) इत्यस्मिन् पादे एक साम । इमाओवा (आ. गा. २.६.६८) इत्यादि तृतीयादिकं वृषा वृषशब्दयुक्तमेतत्संज्ञ साम । बृपाओवा इति साम्नि विद्यते ॥ ३ ।।

एकवृषं च ॥ ६.१.६.४॥

य एक इद्विदयते (सा. ३८९) इत्यत्रैकं साम । हाहुम् इत्यादि यकएइद्विदयते (आ. गा. २. ६.६९) इति क्रुष्टादिकम् एकवृषम् एकवृष- शब्दोपेतम् । एकोवृषाविराजतीति हि साम्नि विद्यते ॥ ४ ॥