पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ आर्षेयब्राह्मणम्

अत्र देवताभेदेन विकल्प दर्शयितुं प्रतिजानीते--

अथापरम् । अग्नेश्व । पृथिव्याश्च । वायोश्च । अन्तरिक्षस्य च। आदित्यस्य च । दिवश्च । अपां च । समुद्रस्य च । माण्डवे द्वे ॥६.१.५.२॥

अथापरमिति । तेषु दशसु सामसु मध्ये आद्यान्यष्ट वयादिदेवताकानि । सर्वत्र चकारो वाक्यभेदार्थः । अन्ये द्वे माण्डवे ॥ २ ॥

पुनरपि नामान्तरं प्रतिजानीते --

अथापरम् । बाभ्रवाणि चत्वारि । पावमानानि चत्वारि । दिशां संसर्प द्वे ॥ ६.१.५.३॥

आद्यानि चत्वारि बाभ्रवाणि । बभ्रुर्नाम ऋषिः तेन दृष्टानि । मध्यमानि चत्वारि पावमानानि पवमानसंबन्धीनि । तेषु त्वया वयं पव- मानेन सोमेति पवमानः श्रूयते खलु । अन्त्ये द्वे दिशां संसर्प एतन्नाम- धेये। पूर्ववदत्र नामोपपन्नमित्यर्थः ।। ३ ।।

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि पञ्चमः खण्डः ॥ ५ ॥