पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः


दश संसर्पाणि महासर्पाणि सर्पसामानि वा ॥६.१.५.१॥

चर्षणीधृतम् (सा. ३७४) इत्यादिपञ्चक्षु दश सामान्युत्पन्नानि । संसणि संसर्पपदयुक्तानि । चा महासर्पनामधेयानि । अथवा सर्पसामानि । का (ता?)नि सामान्याह - चर्षणीधृतम् (सा. ३७४) इत्यत्र सामत्रयम् । अभाइमाहे इत्यादि चर्षणीधृतम् (आ. गा. २. ५. ५६) इति क्रुष्ट- द्वितीयादिकम् । अस्य सर्पसुवाः इति निधनम् । अभिप्रमंहिराइमाहे इत्यादि चर्षणीधृतम् (आ. गा. २. ५. ५७) इति द्वितीयतृतीयादिकम् । अस्य प्रसर्पसुवा इति निधनम् । हाउ (त्रिः) । चर्षणीधृतम् (आ. गा. २. ५. ५८) इति द्वितीयक्रुष्टादिकम् । अस्य उत्सर्पसुवाः इति निधनम् । एवमस्या- स्त्रीणि सामानि । तवेदिन्द्रावमं वसु (सा. २७०) इत्यत्र सामद्वयम् । हाउ (त्रिः) सुवःसंसर्पन्तः । तवेदिन्द्रावमवसु (आ. गा. २. ५. ५९) इति द्वितीयक्रुष्टादिकम् । सुवः संसार्पसंसर्पा इत्यादि तवेदिन्द्रा (आ. गा. २. ५.६०) इति क्रुष्टद्वितीयादिकम् । अत्र स्वशब्दो विद्यते । [एवं] द्वे सामनी । अभि प्रियाणि पवते चनोहितः (सा. ५५४) इत्यत्रैकं साम । सृपायप्रसृ । पा। इया इत्यादि अभिप्रियाणिपवते (आ. गा. २. ५.६१) इति द्वितीयक्रुष्टादिकम् । अत्र सुपायेति शब्दो विद्यते । एवमेकं साम । त्वया वयं पवमानेन सोम (सा. ५९०) इत्यत्र सामद्वयम् । सुपायप्रस । पा । ओहा । इया इत्यादि त्वयावयंपवमानेनसोमा (आ. गा. २. ५. ६२) इति द्वितीयक्रुष्टादिकम् । मृपायप्रस । पा । ओहा इत्यादि त्वया- वयम् (आ. गा. २. ५. ६३) इति द्वितीयक्रुष्टादिकम् । अत्रापि सृपशब्दः । एते द्वे सामनी। स्वादोरित्था विष्वतः (सा. ४०९) इत्यत्र साम- द्वयम् । स्वादोरित्थाविषूनता ओहाउ (आ गा. २. ५. ६४) इति द्वितीय- क्रुष्टादिकम् । स्वादोरित्थाविपूवताओहाउ (आ. गा. २. ५. ६५) इति द्वितीयक्रुष्टादिकम् । एते द्वे सामनी । एवं दश सामानि संसर्पनामधेयानि । संसर्पशब्दाभावेऽपि तद्युक्तसामसंनियोगात् प्राणभृन्न्यायवत् संसर्पसामोपपन्नम् ॥ १