पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयब्राह्मणम् २२०

हौवाओवा इत्यादि धर्तादिवःपया (आ. गा. १. ४. ५३) इति द्वितीयतृतीया- दिकम् । औहोहोवा इत्यादि धादिवःपवा (आ. गा. १. ४. ५४) इति क्रुष्टद्वितीयादिकम् । आऔहोवाहाइ इत्यादि धर्ता (आ. गा. १. ४.५५) इति द्वितीयतृतीयादिकम् । एते चत्वारः प्राजापत्याः प्रजापतिदेवताका: पदस्तोभाः । प्रतिपदं स्तोभसंयुक्ताः । एतत्संज्ञकानि सामानीत्यर्थः । पदस्तोभो भवतीन्द्रो वृत्राय वज्रमुदयच्छत् इत्यादि पदोरुत्तममपश्यत्तत् पदस्तोभस्य पदस्तोभत्वम् (ता. ब्रा. १३. ५. २१-२४) इति ब्राह्मणमनुसं- घेयम् ॥ ६॥

अत्र ऋष्यादिभेदेन विकल्पं दर्शयति --

गौतमा वा । वैश्वामित्रा वा । ऐन्द्राग्ना वा ॥ ६.१.४.७ ॥

अथवा एते गौतमाः गोतमेन दृष्टाः । अथवा वैश्वामित्राः विश्वामित्र- दृष्टाः । अथवा ऐन्द्रामाः इन्द्राग्निदेवताकाः ॥ ७ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये प्रथमपर्वणि चतुर्थः खण्डः ॥ ४ ॥