पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१९ षष्ठोऽध्यायः (४)


रैवतो वैराजः शाकरः इतीन्द्रस्य त्रयोऽतीषङ्गाः ॥६.१.४.४॥

पुरोजिती वो अन्धसः (सा. ५४५), उच्चा ते जात- मन्धसः (४६७) इति परस्परमिलितयोर्द्वयोरेकं साम । एपुरोजिती (आ. गा. १. ४. ४९) इति द्वितीयादिकम् । असर्जि वक्वा रथ्ये यथाजौ (सा. ५४३), असाव्यंशुर्मदाय (सा. ४७३) इति च] द्वयोः परस्परमिलितयोः एक साम । एआसा। जी (जि) वक्वारथ्येयथा (आ. गा. १. ४. ५०) इति क्रुष्टद्वितीयादिकम् । अभी नवन्ते अद्रुहः (सा. ५५०) इति तरत्स मन्दी धावति (सा. ५००) इति एतयोः अन्योन्य- मिलितयोः द्वयोरेक साम । एआभी नवन्तआ (आ. गा. १. ४. ५१) इति क्रुष्टद्वितीयादिकम् । एतानि मिलित्वा ऋग्द्वयाश्रितानि त्रीणि सामानि । इन्द्रस्य त्रयोऽतीपङ्गा रैवतवैराजशाक्कर (रा?) इत्येवंरूपः (पाः?) एतन्नाम- धेयानि सामानि । आदिमस्य रैवतो मध्यमस्य वैराजः तृतीयस्य शाक्करः । समुदायापेक्षया अतीषङ्गशब्दस्य बहुत्वम् ॥ ४ ॥

तत्र देवता- [भेदेन] त्रयाणामपि लोकं (विकल्पं ?) दर्शयितुं मतान्तरं प्रतिजानीते--

अथापरम् । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वा ॥६.१.४.५॥

अथापरम् इति । अथेत्यानन्तर्ये। उक्तार्थानन्तरं प्रश्नो हि – एकमेव मतम् । [उत] नामान्तरमस्ति ? इति । रौद्रो वासवः पार्जन्यो वा वैश्वदेवो वेति [उत्तरम् । ] तृतीयस्य विकल्पो वैश्वदेव इति । न तु सर्वेषाम् ॥ ५ ॥

प्राजापत्याश्चत्वारः पदस्तोभाः ॥ ६.१.४.६ ॥

धर्ता दिवः पवते कृत्व्यो रस (सा. ५५८) इत्यत्र पदस्तोभनाम- धेयानि सामान्युत्पन्नानि । हाहाहौवा ओवा इत्यादि । धर्तादिवःपवते (आ. गा. १. ४. ५२) इत्यादि तृतीय] द्वितीयादिकम् । हाउ (त्रिः) ।