पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः (३)

वरुणगोतमयोरर्कः ॥६.१.३.१०॥

उदुत्तमं वरुणपाशम् (सा. ५८९) इत्यत्रैकं साम । हाउ (त्रिः) । आयुश्चक्षुज्योतिः । औहोवा । ईया उदुत्तमंवरुणपाशमास्मात् (आ. गा.१. ३. ४०) इति द्वितीयक्रुष्टादिकं वरुणगोतमयोरर्कनामकम् । वरुणो देवता ऋषिर्गोतमः ॥१०॥

अर्कपुष्पे द्वे ॥ ६.१.३.११॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् । इयाहोइ इत्यादि इन्द्रनरो । ने (आ. गा. १. ३. ४१) इति क्रुष्टद्वितीयादि.कम् । उवाहोइ इत्यादि इंन्द्रनरो ने (आ. गा. १. ३. ४२) इति क्रुष्ट-द्वितीयादिकम् । एते द्वे अर्कपुष्पनामधेये ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणभाष्ये षष्ठाध्याये प्रथमपर्वणि तृतीयः खण्डः ॥ ३ ॥