पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्


(ग्राम. १६. ८. ५४६. २) इति मन्द्रादिकम् । अपूषा (ग्राम. १६. ८. ५४६. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि क्रौञ्चानि । अथवा सोमसामानि ॥ २ ॥

त्वाष्ट्रीसामनी च । वासिष्ठं च । त्वाष्ट्रीसाम च । वासिष्ठं च । त्वाष्ट्रीसामनी चैव । वासिष्ठं चैव ॥ ५.८.३ ॥

सुनामो मधुमत्तमाः (सा. ५४७) इत्यत्राष्टौ सामानि उत्पन्नानि । तत्र सुतासोमा (ग्राम. १६. ८. ५४७ १) इति मन्द्रादिकम् । सुतासो- मधुमत्तमा (ग्राम. १६. ८.५४७.२) इति मन्द्रचतुर्थादिकम् । एते आये द्वे वाष्ट्रीसामनी ॥ सुतासोमधुमत्तमाः । सोमाइन्द्रा (प्राम. १६. ८. ५४७.३) इति मन्द्रचतुर्थादिकं तृतीय वासिष्ठम ॥ सुतासोमधुमत्तमाः। सोमाहाउ (ग्राम. १६. ८. ५४७. ४) इति मन्द्रचतुर्थादिकं चतुर्थं त्वाष्ट्री- साम ।। सुतासोमधुमत्तमाए (ग्राम. १६. ८. ५४७.५) इति मन्द्रादिक पञ्चमं वासिष्ठम् ।। सुतासोमाहा (ग्राम. १६. ८. ५४७. ६) इति क्रुष्ट- द्वितीयादिकम् । सुता । सोना । हाहा (ग्राम. १६. ८. ५४७.७) इति मन्द्रतृतीयादिकम् । एते षष्ठसप्तमे त्वाष्ट्रीसामनी ॥ सुतासोमाधुमत्तमाः (ग्राम. १६.८.५४७. ८) इति मन्द्रद्वितीयादिकमन्तिम वासिष्ठमेव ॥३॥

क्रौञ्चे द्वे ॥ ५.८.४॥

सोमाः पवन्त इन्दवः (सा. ५४८) इत्यत्र सामद्वयम् । हाउ- सोमाः (ग्राम. १६. ८.५४८.१) इति चतुर्थमन्द्रादिकम् । सोमाःपवन्त- इन्दवाः (ग्राम. १६. ८. ५४८. २) इति मन्द्रतृतीयादिकम् । एते द्वे क्रौञ्चे ॥ ४ ॥