पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः खण्डः


नकुलस्य वामदेवस्य प्रेतौ द्वौ । महाकार्तयशं च कार्तवेश वा । और्ध्वसद्मनं च । श्यावाश्वं च । आन्धीगवं चेति ॥५.८.१॥

पुरोजिती वो अन्धसः (सा. ५४५) इत्यत्र षट् सामान्युत्पन्नानि । तत्र पुरोजिती (ग्राम. १६. ८. ५४५. १) इति मन्द्रादिकम् । पुरोजिती। वो ओंधासाः (ग्राम. १६. ८. ५४५. २) इति मन्द्रादिकम् । एतौ द्वौ वामदेवस्य नकुलस्य प्रेडौ । पुरोहाहाउ (ग्राम. १६. ८. ५४५. ३) इति मन्द्रादिकं तृतीयं महाकार्तयशम् एतन्नामकम् । अत्र विकल्पः। एतत् कार्तवेश वा ॥ पुरोजितीवोअन्धसः । उवाहाइ (ग्राम. १६. ८. ५४५. ४) इति मन्द्रचतुर्थादिकं चतुर्थम् औलसझनम् । औ_शब्देन दिगन्तराण्यभिधीयन्ते। इतस्ततः सर्वत्र समगमनं [सद्मनम् ।] तत्साधनमित्यर्थः। असुरा वा एषु लोके- वासंस्तान्देवा औलसझनेभ्यो लोकेभ्यः प्राणुदन्त (ता.बा.९.२.११) इति ब्राह्मणमनुसंधेयम् ।। पुरो (ग्राम. १६.८.५४५.५) इति तृतीयद्वितीयादिकं पञ्चमं श्यावाश्वम् । श्यावाश्वो नाम ऋषिः । अत्र ब्राह्मणम् श्यावाश्व- मर्चनानसं सत्रमासीनमित्युपक्रम्य इन्द्रस्तृतीयसवनाद्वीभत्समान उदक्रामत् । तं देवाः श्यावाश्वेनहाइ एहियेत्यन्बह्वयन् । स उपा- वर्तत (तां ब्रा. ८. ५. ९-११) इति । अस्य साम्नः ऐहाइएहियेति स्तोभः ॥ पुरोजितीवोंधासाः (ग्राम. १६. ८. ५४५. ६) इति मन्द्रचतुर्था- दिकं षष्ठं साम आन्धीगवम् । अन्धीगुर्नाम ऋषिः । तेन दृष्टम् । तथा च ब्राह्मणम् --आन्धीगवं भवत्यन्धीगुर्वा एतत्पशुकामः सामापश्यत् (तां. बा. ८.५.१२) इति ॥ १॥

क्रौञ्चानि त्रीणि । सोमसामानि वा ॥५.८.२॥

अयं पूषा रयिर्भगः (सा. ५४६) इत्यत्र सामत्रयम् । अयंपूपोहो (ग्राम. १६. ८. ५४६. १) इति द्वितीयक्रुष्टादिकम् । अयंपूषा । अयंपूषा