पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४९ पञ्चमः अध्यायः (७) दाशस्पत्ये द्वे ॥४॥ साकमुक्षो मर्जयन्त स्वसारः (सा. ५३८) इत्यत्र सामद्वयम् । साकाम् (ग्राम. १५. ७. ५३८.१) इति चतुर्थमन्द्रादिकम् । साकमुक्षाए (ग्राम. १५. ७. ५३८.२) इति मन्द्रादिकम् । एते द्वे दाशस्पत्ये एतत्संज्ञे ॥४॥

कश्यपस्य च शोभनम् ॥ ५.७.५॥

अधि यदस्मिन् वाजिनीव शुभः (सा. ५३९) इत्यत्र सामैकम् । अधियदा (ग्राम. १५.७.५३९.१) इति चतुर्थमन्द्रादिक कश्यपस्य च शोभनम् । शुभशब्दस्य विद्यमानत्वात् । चकारो वाक्यभेदद्योतनार्थः ॥५॥

दाशस्पत्यानि चैव चत्वारि ॥ ५.७.६ ॥

इन्दुर्वाजी पवते गोन्योधा (सा. ५४०) इत्यत्र सामचतुष्टयम् । इन्दुजी (ग्राम. १५. ७. ५४०. १) इति द्वितीयतृतीयादिकम् । इन्दु- जीपवतौ (ग्राम. १५.७.५४०.२) इति चतुर्थमन्द्रादिकम् । इन्दुरौहो- वाहाईया (१५. ७. ५४०. ३) इति मन्द्रचतुर्थादिकम् । इन्दुर्वाजीपवते- गोनियोघाः (ग्राम. १५.७.५४०.४) इति मन्द्रचतुर्थादिकम् । एतानि चत्वारि दाशस्पत्यानि एव ॥ ६ ॥

श्नौष्टानि त्रीणि । श्नुष्टेर्वाङ्गिरसस्य । अग्नेर्वैश्वानरस्य सामानि ॥ ५.७.७॥

अया पवा पवस्वैना वसूनि (सा. ५४१) इत्यत्र सामत्रयम् । औहोहाइ (ग्राम. १६. ७. ५४१.१) इति मन्द्रचतुर्थादिकम् । अयोहाइ । पवोहाइ (ग्राम. १६.७.५४१. २) इति मन्द्रचतुर्थादिकम् । हाओवा (ग्राम. १६. ७.५४१.३) इत्यादि द्वितीयतृतीयादिकम् । एतानि त्रीणि नौष्टानि । अथवा आङ्गिरसस्य अङ्गिरसः पुत्रस्य श्नुष्टेः एतन्नामधेयस्य ऋषेः