पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८७ पञ्चमः अध्यायः (६)


त्समुद्र (सा. ५२९ ) इत्यत्रैक साम । हो । होइ । अक्रान्त्समुद्रःप्रथमे- विध । मान् (ग्राम. १५. ६. ५२९.१) इति क्रुष्टद्वितीयादिकम् । एते अगस्त्यस्य यमिके । कनिक्रन्ति (सा. ५३०) इत्यत्र सामद्वयमुत्पन्नम् । कानीक्रान्ती (ग्राम. १५. ६. ५३०.१) इति चतुर्थमन्द्रादिकम् । कनि- क्रन्ति हा । होइ (ग्राम. १५. ६. ५३०. २) इति तृतीयचतुर्थादिकम् । एते द्वे इन्द्रस्य वारवन्तीये । मरुतां वा । अभि त्रिपृष्ठम् , अक्रान्समुद्रः कनिक्रन्तीति द्वे [इत्यर्थः] । एष स्य ते मधुमाँ इन्द्र (सा. ५३१) इत्यत्रैक साम । एषाएषाः । स्यताइ (ग्राम. १५.६.५३१.१) इति चतुर्थमन्द्रादिकम् । पवस्व सोम मधुमान (सा. ५३२) इत्यत्रैक साम । हाओहाइ । इहा । पवस्वसोम (ग्राम. १५. ६. ५३२.१) इति द्वितीयतृतीयादिकम् अपरम् । एते द्वे ऋग्द्वयाश्रिते कालकाक्रन्दौ। अन्तिमं ज्याहोडनामकं वा ॥ ६ ॥ अथोत्तरेषु हाउजनद् इत्युपक्रम्य हाओहाइ । इहा। पवस्वसोमे- त्यन्तानां नामान्तरमाह--

वासिष्ठान्यष्टौ ॥ ५.६.७ ॥

अर्थतेषामेव प्रत्येक विशेषसंज्ञां दर्शयति --

वसिष्ठस्य जनित्रे द्वे । अङ्गिरसां व्रतोपोहः। वसिष्ठस्य वा सम्पा। वैयश्वं च । सोमसामनी च । ऐषं च । माधुच्छन्दसं च॥५.६.८॥

अष्टस्वाद्ये द्वे वसिष्ठस्य जनित्रे । अङ्गिरस वोपहस्तृतीयम् । एतदेव वसिष्ठस्य सम्पासंज्ञकं वा । चतुर्थ वैयश्वम् । पञ्चमषष्ठे सोमसामनी । सप्तमम् ऐषम् । अष्टमं माधुच्छन्दसम् ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्राशे आयब्राह्मणभाष्ये पञ्चमाध्याये षष्ठः खण्डः ॥ ६ ॥