पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ अ.यब्राह्मणम्


अङ्गिरसां संक्रोशास्त्रयः ॥ ५.६.३ ॥

तिस्रो वाच ईग्यति (सा. ५२५) इत्यत्र सामत्रयम् । होइ । हो। हाहो । तिस्रोवाचाः (ग्राम १५. ६. ५२५.१) इति क्रुष्टद्विती- यादिक प्रथमम् । इहोइह । इहोइहाहो । वाहोइह । तिस्रोपाचा (ग्राम. १५. ६.५२५.२) इति तृतीयद्वितीयादिकं द्वितीयम् । ओहा । ओहाओहा। ऋतस्यधाइ (ग्राम. १५. ६.५२५.३) इति तृतीयद्वितीयादिकं तृतीयम् । एते अङ्गिरमा संक्रोवस्त्रयः ।। ३ ।।

सामसुरसी द्वे । सामसरसे वा ॥ ५.६.४ ॥

अस्य प्रेपा (सा. ५२६) इत्यत्र सामद्वयम् । अस्या औहोवा (ग्राम. १५. ६. ५२६.१) [इति । औ (ओ?) होनाहाहोइ इहा अस्यप्रेषा (ग्राम. १५. ६.५२६.२) इति च । एते सामसुरसी सामसरसे वा ॥ ४ ॥

वेणोर्विशाले द्वे । गौतमस्य तन्त्रातन्त्रे द्वे ॥५.६.५॥

सोमः पवते जनिता (सा. ५२७) इत्यत्र सामचतुष्टयम् । सोमः पवा (ग्राम. १५. ६. ५२७.१) इति प्रथमम् । सोमःपवतेजनिता (ग्राम. १५. ६. ५२७. २) इति द्वितीयम् । एते वेणोविंशाले । हाउजनत् (ग्राम. १५. ६. ५२७.३) इति तृतीयम् । जनद्धाउ (ग्राम. १५. ६. ५२७. ४) इति चतुर्थम् । एते गौतमस्य तन्त्रातन्त्रे ॥ ५॥

अगस्त्यस्य यमिके द्वे । इन्द्रस्य वारवन्तीये द्वे । मरुतां वा। कालकाक्रन्दौ । ज्याह्रोडौ वा ॥ ५.६.६॥

अमि त्रिपृष्ठम् (सा. ५२८) इत्यत्रैक साम । ओहाइ इत्यादि अभित्रिपा (ग्राम. १५. ६. ५२८.१) इति द्वितीयतृतीयादिकम् । अक्रान्-