पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः खण्डः

औशनम् । वृशस्य वै जानस्याभीवर्तौ द्वौ। औशने चैव । सर्वाणि वौशनानि ॥५.६.१॥

प्रतु द्रव (सा. ५२३) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र ओइ- प्रतु (ग्राम. १५. ६. ५२३.१) इति द्वितीयतृतीयादिकं प्रथममौशनम् । प्रतु । एप्रतू (ग्राम. १५. ६. ५२३.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । प्रतु- द्रावापरिकोशाम् (ग्राम. १५.६.५२३.३) इति चतुर्थमन्द्रादिकम् [तृतीयम्] । एते द्वे वै जानस्य वृशस्याभीवौं । हाओहा (ग्राम. १५. ६. ५२३. ४) इति मन्द्रादिकम् । प्रातु । द्रवा । परिकोशाम् (ग्राम. १५. ६. १२३.५) इति चतुर्थमन्द्रादिकम् । एते चतुर्थपश्चमे औशने एव । अथवा सर्वाण्यपि पश्चौशनानि ॥१॥

वाजसनी द्वे । वाजजिती द्वे । वाराहं बोत्तरम् । सर्वणि वैव वाराहाणि ॥५.६.२॥

प्रकाव्यम् (सा. ५२४) इत्यत्र चत्वारि सामान्युत्पन्नानि । प्रा- कावियाम् (ग्राम. १५. ६. ५२४.१) इति द्वितीय (? चतुर्थ) क्रुष्टादिक प्रथमम् । प्रकावियाम् । उशनेवा (ग्राम. १५. ६. ५२४.२) इति क्रुष्ट- द्वितीयादिकं द्वितीयम् । एते वाजसनी। प्रकाव्यमुशनेववाणो (ग्राम. १५. ६. ५२४.३) इति द्वितीयतृतीयादिकं तृतीयम् । हाउहाउ । हुप् । प्रकावियाम् (ग्राम. १५. ६.५२४.४) इति मन्द्रकुष्टादिकं चतुर्थम् । एते द्वे वाजजिती। अथवा उत्तरं वाराहम् । यद्वा सर्वाणि चत्वारि वाराहाणि ॥२॥