पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (५)


सिन्धुः (प्राम, १४. ५. ५१४.४) इति तृतीयचतुर्थादिकम् । प्रसोमदाइ- वावीतयाइ (ग्राम. १४. ५. ५१४. ५) इति मन्द्रादिकम् । एते अन्तिमे द्वे अङ्गिग्सां उत्सेधनिषेधनामधेये। अत्र ब्राह्मणम् - उत्सेधो भवति । उत्सेधेन वै देवा पशूनुदसेधन् । निषेधेन पर्यगृहन् (ता. बा. १४.९. १०-११) इति ॥ ४ ॥

सोमसामानि षट् । आश्वानि वा ॥५.५.५॥

सोम उ ष्वाणः सोतृभिः (सा. ५१५) इत्यत्र षट् सामान्युत्पन्नानि । हाउसोमाः (ग्राम. १४. ५. ५१५.१) इति चतुर्थमन्द्रादिकम् । सोम- ऊवाणः सोतृभाइः (ग्राम. १४. ५. ५१५.२) इति मन्द्रद्वितीयादिकम् । सोमउष्वाणः सोतृभिः। ए। अधी (ग्राम. १४. ५. ५१५.३), इति चतुर्थमन्द्रादिकम् । सोमउधणः सोवृमिः । ए । अधी। ष्णुमिरवीणाम् (ग्राम. १४. ५. ५१५. ४) इति चतुर्थमन्द्रादिकम् । सोमउष्वाणःसोत् । भाइः (ग्राम. १४.५. ५१५. ५) इति चतुर्थमन्द्रादिकम् । सोमउष्वाणः सोतृभिः (ग्राम. १४. ५. ५१५. ६) इति तृतीयचतुर्थादिकम् । एतानि षट् [सोम] सामानि । अथवा आश्वानि एतत्संज्ञकानि ॥ ५ ॥

विष्णोरयमणी द्वे । वैष्णवे वा । आङ्गिरसानि त्रीणि ॥५.५.६॥

तवाहं सोम रारण (सा. ५१६) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र तवाहसो (ग्राम. १५. ५. ५१६.१) इति मन्द्रादिकम् । तवातवा (ग्राम. १५. ५. ५१६. २) इति चतुर्थमन्द्रादिकम् । एते द्वे विष्णोरयमणी एतत्संज्ञे । अथवा वैष्णवे विष्णोः संबन्धिनी । तवाहसोमारारणा (ग्राम. १५. ५. ५१६.३) इति मन्द्रादिकम् (चतुर्थादिकम् ?) । तवाहंसोमरौ (ग्राम. १५. ५. ५१६. ४) इति चतुर्थमन्द्रादिकम् । तवाहसोमरारण (ग्राम. १५.५.५१६.५) इति तृतीयचतुर्थादिकम् । एतानि त्रीण्याङ्गिरसानि ॥६॥

औक्ष्णोनिधानानि त्रीणि । औक्ष्णोरन्ध्राणि वा। आग्नेयानि