पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ आर्षेयब्राह्मणम्


यौधाजपम् युधाजय ायनम् । तथा च ब्राह्मणम् अथेन्द्रो यौधाजय- मित्युपक्रम्य इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम् । युधामर्या अजेष्मेति नलायौधाजयम् ( ता. ब्रा. ७.५.१२-१५) इति । अथवा आङ्गिरमस्य अङ्गि यः पुत्रस्य युधाजेः माम । युधाजीवस्य । युद्वेनाजीवत ति युधाजीवः । बलवर.म इत्यर्थः । तादृशस्य विश्वामित्रस्य साम वा । अथवा इन्द्रस्य वा ॥१॥

इन्द्रस्याच्छिद्ररयिष्ठे द्वे । वसिष्ठस्य वा। भारद्वाजे द्वे । आभीशवे द्वे । माण्डवे द्वे । अङ्गिरसामभीवासपरिवाससी द्वे । वैणसोमक्रतवीये द्वे । माण्डवं वैनयोरुत्तरम् । प्रजापतेर्गूर्दौ द्वौ । कश्यपस्य वा प्रतोदौ । अङ्गिरसां गोष्ठपुंस्तिनी द्वे। महारौरवं च। महायौधाजयं च ॥ ५.५.२ ॥

परीतो षिश्चता सुतम् । (सा. ५१२) इत्यत्र अष्टादश सानान्युत्पन्ना ने । तत्र परीतोषी चताउवा (ग्राम. १४. ५. ५१२.१) इति मन्द्रद्वितीयादिकम् । परीतोषी। चनामृताम् (ग्राम. १४.५ ५१२.२) इति मन्द्रद्वितीयादिकम् । एते आये द्वे इन्द्रस्याच्छिद्ररयिष्ठे । प्रथम- मच्छिद्रम् । अत्र ब्राह्मणम् अच्छिद्रं भवति । यद्वा एतस्याह्नः छिद्र मीनदेवा अच्छिद्रेणा यौस्तदच्छिद्रस्याच्छिद्रत्वम् (ता. बा. १४. ९.६५६६) इति । द्वितीयं रयिष्ठम । अत्र ब्राह्मणम् - रयिष्ठं भवति परावो ये रयि शूराम.रुध्यै (ता. बा. १४.११. ३१-३२) इति । अथवा