पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७ पञ्चमः अध्यायः (५)


सोमधा । होर (हार?) या (ग्राम. १४.५. ५११.७) इति मन्द्रचतुर्थ- दिकं सप्तमम् उद्वत्प्राजापत्यम् । पुनानःसोमधाहाउहोगा (ग्राम. १४.५. ५११.८) इति मन्द्रचतुर्थादिकम् अयाम्यमेव । पुनानःसोमधाग्या (ग्राम. १४. ५. ५११.९) इति मन्द्रचतुर्थादिकं कण्याथन्तग्ना कम् ॥ पुनानःसोमधारया । ए (ग्राम. १४. ५. ५११.१०) इति चतुर्थतृतीयादिक तिरश्चीनिधनम् आयास्यमेव । तथा च - आय स्यं भवति तिरश्ची- निधनं प्रतिष्ठायै। अयास्यो या आङ्गिरस आदित्यानां दीक्षि- तानामन्नमश्नाद् (तां ब्रा. १४. ४.२२) इत्यादि ब्राह्मणमनुसंधेयम् ॥ पुनानःसोमधारयाओहाओहाए (१४. ५. ५११.११) इति मन्दमन्द्रादिकं प्रजापतेः सदोविशीयम् । सदोविशा इति निधनमस्य साम्नः । तद्युक्तम् ।। ओहो । वा ओवा (ग्राम. १४.५. ५११. १२) इत्यादि क्रुष्टद्वितीयादिकम् । ओ। हो । वा ओवा इत्यादि पुनानः (ग्राम. १४. ५. ५११. १३) इति द्वितीयतृतीयादिकम् । एते द्वादशत्रयोदशे सामनी जमदग्नेः स्वयासिनी जमदग्नेरेतत्संज्ञे ॥ हा । होहा इत्यादि पुनानाःसो (ग्राम. १४.५. ५११. १४) इति द्वितीयतृतीयादिक चतुर्दश साम वसिष्ठा प्लः । प्लवनं दुरित- तरणसाधनम् । तथा च प्लवो भवति ममुद्रं वा एते प्रस्ना- न्तीत्याहुर्ये द्वादशाहमुपयन्ति (ता. बा. १४. ५.१६-१७) इत्यादि ब्राह्मण- मनुसंधेयम् ॥ पुनानःसोमाधारया (ग्राम. १४. ५. ५११.१५) इति द्वितीय- तृतीयादिकम् उपोत्तमं साम अग्नेः रौरवम् । अत्र ब्राह्मणम् – अग्नि रुर- स्तस्यैतद् [ग्वम् । असुरा वै देवान् पर्ययन्ति । तत एतावनी सरौ विष्वञ्चौ स्तोभावपश्यत् । ताभ्यामेनात् प्रत्यौपत्त प्रत्युष्यमाणा अरवन्त । यदरवन्त तस्माद्रौरवम् (ता. ब्रा. ७.५.१०-११) इति ॥ पुना । नाःसो (ग्राम. १४. ५. ५११.१६) इति तृतीयद्वितीयादिकं षोडश साम इन्द्रस्य