पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

शाकपूते द्वे ॥ ४.२.६॥

स घा यस्ते दिवो नरः (सा. ३६५) इत्यत्र सामद्वयम् । सघा- यस्ताइ (ग्राम. ९.२. ३६५ १) इति द्वितीयक्रुष्टादिकम् । सघायस्ताइ (ग्राम. ९. २. ३६५.२) इति मन्द्रादिकम् । एते द्वे शाकपूते ॥ ६ ॥

वरुणान्याः साम ॥ ४.२.७ ॥

विभोष्ट इन्द्र राधसः (सा. ३६६) इत्यत्रैक साम । विभोष्टइन्द्र- राधासाः (ग्राम. ९. २. ३६६.१) इति मन्दमन्द्रादिकं वरुणान्याः साम । इन्द्रवरुण (पा. ४.१.४९) इति वरुणशब्दात् ङीपानुकौ ॥ ७ ॥

औषसं च ॥ ४.२.८॥

वयश्चित्ते पतत्रिणः (सा. ३६७) इत्यत्रैक साम । वयश्चाइत्ते. पतत्रिणाः (ग्राम. ९. २. ३६७.१) इति मन्द्रद्वितीयादिकम् औषसम् ॥ ८॥

देवानां च रुचिरुचेर्वा रोचनम् ॥ ४.२.९॥

अमी ये देवा स्थन (सा. ३६८) इत्यत्रैकं साम | अमीयेदेवा- स्थाना (ग्राम. ९.२. ३६८. १) इति मन्द्रचतुर्थादिकं देवानां रोचनम् । अथवा रुचिरुचेः एतत्संज्ञकस्य रोचनं साम ॥ ९॥

ऋक्साम्नोः सामनी द्वे ॥ ४.२.१० ॥

ऋचः पूर्व साम साम्नः उत्तरम् इति ऋचः साम । ऋचश्याम यजा- महे (सा. ३६९) इत्यत्र सामद्वयम् । ऋचरपाम यजा (ग्राम. ९.२.