पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ आर्षेयब्राह्मणम्


इन्द्रस्य प्रियाणि चत्वारि । वसिष्ठस्य वा। गौतमं वैषां द्वितीयम् ॥ ३.१२.३॥

इममिन्द्र सुतं पिब (सा. ३४४) इत्यत्र चत्वारि सामान्युत्पन्नानि । इममाइन्द्रा (ग्राम. ९. १२. ३४४.१) इति द्वितीयक्रुष्टादिकम् । इममिन्द्र- सुतंपिया (ग्राम. ९. १२. ३४४.२) इति मन्द्रतृतीयादिकम् । इममिन्द्रा- सुतंपिबा (ग्राम. ९. १२.३४४.३) इति चतुर्थमन्द्रादिकम् । इममी (ग्राम. ९.१२. ३४४.४) इति द्वितीयक्रुष्टादिकम् । एतानि चत्वारि सामानि इन्द्रस्य प्रियाणि । अथवा वसिष्ठस्य । यद्वा एषां चतुर्णा मध्ये द्वितीयं साम गौतमम् ॥ ३ ॥

गृत्समदस्य वीङ्कानि चत्वारि । वसिष्ठस्य वा । आकूपारं वैषां तृतीयम् ॥ ३.१२.४॥

यदिन्द्र चित्र म इह न (सा. ३४५) इत्यत्र चत्वारि सामान्युत् - पन्नानि । यदिन्द्रो हाइ (ग्राम. ९. १२. ३४५.१) इति चतुर्थमन्द्रादिक प्रथमम् । यदिन्द्रचित्रमौहोवा (ग्राम. ९. १२. ३४५.२) इति मन्द्रचतुर्था- दिकं द्वितीयम् । यदिन्द्राचित्र (ग्राम. ९. १२. ३४५.३) इति द्वितीय- क्रुष्टादिकं तृतीयम् । यदिन्द्रचित्रमइ (ग्राम. ९. १२. ३४५. ४) इति तृतीयचतुर्थादिकं चतुर्थम् । एतानि चत्वारि गृत्समदस्य वीङ्कानि एतन्नाम- धेयानि । अथवा वसिष्ठस्य वीङ्कानि । यद्वा एषां चतुर्णा मध्ये तृतीय- माकूपारम् । अकूपारो नाम कश्यपः ॥ ४ ॥