पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः


शैखण्डिने द्वे । विश्वेषां देवानामुद्वंशीयं तृतीयम् ॥३.१२.१॥

गायन्ति त्वा गायत्रिणः (सा. ३४२) इत्यत्र सामत्रयमुत्पन्नम् । तत्र गाया (ग्राम. ९. १२. ३४२. १) इति तृतीयद्वितीयादिकम् । गायन्ति- त्वो हाइ (ग्राम. ९.१२. ३४२.२) इति मन्द्रचतुर्थादिकम् । एते द्वे शैखण्डिने । गायन्तित्वागायत्रिणआ (ग्राम. ९.१२.३४२. ३) इति चतुर्थमन्द्रादिक तृतीय साम विश्वेषां देवानामुद्वंशीयम् उद्वंशशब्दवत्साम । तथा च ब्राह्मणम् --- पृष्ठानि वा असृज्यन्त तेषां यत्तेजो रसोऽत्यरिच्यत तद्देवाः समभरंस्तदुवंशीयमभवद् (तां. बा. ८. ९. ६) इति ॥ १॥

शैखण्डिनानि चैव त्रीणि । आष्टादंष्ट्रे द्वे । महावैश्वामित्रे द्वे ॥ ३.१२.२॥

इन्द्रं विश्वा अवीवृधन् (सा. ३४३) इत्यत्र सप्त सामान्युत्पन्नानि । तत्र इन्द्रंविश्वाः (ग्राम. ९.१२. ३४३. १) इति मन्द्रादिकम् । ओइन्द्रं- विश्वाः (ग्राम. ९.१२. ३४३.२) इति द्वितीयतृतीयादिकम् । इन्द्रविश्वा अवीवृधन (ग्राम. ९.१२.३४३.३) इति तृतीयचतुर्थादिकम् । एतानि स्त्रीणि शैखण्डिनान्येव । इन्द्रविश्वाअवीवृधन् ऐयाहाइ (ग्राम. ९.१२. ३४३. ४) इति चतुर्थमन्द्रादिकम् । इन्द्रंविश्वाअवीवृधन्नैयादौ (ग्राम. ९. १२. ३४३. ५) इति चतुर्थमन्द्रादिकम् । एते द्वे आष्टादंष्ट्रे । एतत्संज्ञे सामनी । तथा च ब्राह्मणम् – आष्ट्रादंष्ट्रे भवतः (ता. बा. ११. ११. ११) इति । हयाइ हया ओहाओहा । इन्द्रविश्वाः (ग्राम. ९.१२. ३४३.६) इति द्वितीयतृतीयादिकम् । हयाए इत्यादि इद्रविश्वाअवी (ग्राम. ९.१२. ३४३.७) इति द्वितीयक्रुष्टादिकम् । एते द्वे महावैश्वामित्रे ॥ २ ॥