पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१ तृतीयः अध्यायः (११)

यं वृत्रेषु (सा. ३३७) इत्यत्र सामद्वयम् । हाउयंत्रेषू (ग्राम. ९.११. ३३७. १) इति मन्द्रादिकम् । यंयंया (ग्राम. ९. ११.३३७.२) इति मन्द्रादिकम् । एते द्वे गृत्समदस्य मदसंज्ञे । अथवा गौतमस्य बानु- तोदौ ।। ६॥

वैश्वामित्रम् ॥ ३.११.७ ॥

इन्द्रा पर्वता बृहता (सा. ३३८) इत्यत्र सामैकम् । इन्द्राहाउ (ग्राम. ९.११. ३३८.१) इति चतुर्थमन्द्रादिकं वैश्वामित्रं विश्वामित्रेण दृष्टम् ॥ ७ ॥

सावित्राणि षट् ॥ ३.११.८॥

इन्द्राय गिरो अनिशितसर्गा (सा. ३३९) इत्यत्र स्तोभविन्यास- भेदेन षट् सामान्युत्पन्नानि । तत्र हा । हाइ । इन्द्रायगाइ (ग्राम. ९.११. ३३९. १) इति द्वितीयतृतीयादिकमाद्यम् । असाउ असाउ इन्द्रायगा (ग्राम. ९. ११. ३३९. २) इति द्वितीयक्रुष्टादिक द्वितीयम् । कुवा कुवा इन्द्रायगा (ग्राम. ९. ११. ३३९. ३) इति द्वितीयक्रुष्टादिकं तृतीयम् । अयामयामपः प्रेरा (ग्राम. ०. ११. ३३९. ४) इति द्वितीयक्रुष्टादिकं तुरीयम्। अविदात् अविदत् यो अक्षेणाइ (ग्राम. ९. ११. ३३९. ५) इति क्रुष्टद्वितीयादिकं पञ्चमम् । इहाईहाविष्वक्तस्ता (ग्राम. ९. ११. ३३९. ६) इति द्वितीया- ष्टादिकं षष्ठम् । सावित्राणि सवितृसंबन्धीनि । एवं षट् सामानि ॥ ८ ॥

कुतीपादस्य वैरूपस्य साम ॥ ३.११.९ ॥

आ त्वा सखायः ववृत्युः (सा. ३४०) इत्यत्रैकं साम । आत्वा- सखायः (ग्राम. ९. ११. ३४०.१) इति चतुर्थमन्द्रादिकं कुतीपादस्य वैरूपस्य साम ॥९॥