पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः


अदित्याः सामनी द्वे । तार्क्ष्यसामनी वा ॥३.११.१॥

त्यमू षु वाजिनम् (सा. ३३२) इत्यत्र सामद्वयम् । त्यमूपू (ग्राम. ९. ११. ३३२. १) इति मन्द्रादिकम् । ईयइयाहाइ। त्यमूषुवाजि- नांदेवजूतम् (ग्राम. ९. ११. ३३२. २) इति द्वितीयादिकम् । एते द्वे अदित्याः सामनी । अथवा तायसामनी ॥१॥

इन्द्रस्य च त्रातम् ॥ ३.११.२ ॥

त्रातारमिन्द्रमवितारम् (सा. ३३३) इत्यत्रैक साम । त्रातार- मिन्द्रमविता (ग्राम. ९. ११. ३३३. १) इति द्वितीयक्रुष्टादिकम् इन्द्रस्य च नातं त्रातृशब्दयुक्तमेतत्साम ॥२॥

याज्ञतुरं च वार्त्रतुरं वा ॥ ३.११.३ ॥

यजामहे (सा. ३३४) इत्यत्रैक साम । यजामहोवा (ग्राम. ९. ११. ३३४. १) इति मन्द्रचतुर्थादिकं याज्ञतुरम् अथवा वातुरम् ॥ ३ ॥

धृषतो मारुतस्य सामनी द्वे ॥ ३.११.४ ॥

सत्राहणं दधृषिम् (सा. ३३५) इत्यत्र सामद्वयम् । सत्रा। हणा आहोवा (ग्राम. ०. ११. ३३५.१) इति मन्द्रतृतीयादिकम् । सत्राहणंदा- धृषिम् (ग्राम. ९. ११. ३३५. २) इति चतुर्थतृतीयादिकम् । एते द्वे मारु- तस्य धृषतः सामनी ।। ४ ।।

आत्रम् ॥ ३.११.५॥

यो नो वनुष्यन् (सा. ३३६) [इत्यत्रैकं साम । योनोवनुष्यन् ] ग्राम. ९. ११. ३३६. १) इति तृतीयचतुर्थादिकम् आत्रम् एतत्संज्ञम् ॥ ५॥ गृत्समदस्य मदौ द्वौ । गौतमस्य वानुतोदौ ॥ ६ ॥