पृष्ठम्:आर्षेयब्राह्मणम्.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः

सौभरं च ॥ ३.७.१॥

इम इन्द्राय स्तुन्विरे (सा. २९३) इत्यत्रकं साम । इमाइ । इमई (ग्राम. ८. ७. २९३. १) इति तृतीयद्वितीयादिकं सौभरम् । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ॥ १॥

गार्त्समदं च ॥ ३.७.२॥

इम इन्द्र मदाय ते (सा. २९४) इत्यत्रैक साम । इमइन्द्र[I]मदा- यताइ (ग्राम. ८. ७. २९४. १) इति चतुर्थमन्द्रादिकं गार्ल्समदम् । गृत्स- मदेन दृष्टम् ॥ २॥

वाचश्व साम ॥ ३.७.३ ॥

आ त्वाद्य सबर्दुघाम् (सा. २९५) इत्यत्र सामैकम् । आत्वद्या- सांबदुर्घाम् ( ग्राम. ८. ७. २९५. १) इति मन्द्रमन्द्रादिकं वाचः साम ॥३॥

बार्हदुक्थं च ॥ ३.७.४॥

न त्वा बृहन्तः (सा. २९६) इत्यत्रैकं साम । नत्वाबृह (ग्राम, ८. ७. २९६. १) इति चतुर्थमन्द्रादिकं बाहदुक्थम् ॥ ४ ॥

वाशं च नैपातिथं वा ॥ ३.७.५ ॥

कई वेद सुते सचा (सा. २९७) इत्यत्र सामैकम् । कईवेदा (ग्राम. ८.७.२९७.१) इति मन्द्रादिकं वाशम् एतन्नामधेयम् । नैपातिथसंज्ञम् ॥ ५ ॥

तौरश्रवसं च ॥ ३.७.६॥

यदिन्द्र शासो अव्रतम् (सा. २९८) इत्यत्र सामैकम् । यदिन्द्रा (ग्राम. ८. ७. २९८. १) इति द्वितीयक्रुष्टादिकं तौरश्रवसं च ॥ ६ ॥