पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ आर्षेयब्राह्मणम्

(ग्राम. ८. ६. २८६. १) इति तृतीयचतुर्थादिकं तद् वामदेव्यसंज्ञकम् । वकारो [वाक्य भेदद्योतनार्थः ॥ ४ ॥

अश्विनोश्च साम ॥ ३.६.५॥

शचीभिर्नः शचीवसू (सा. २८७) इत्यत्र सामैकम् । शचीभिर्ना शचीवसू (ग्राम. ८. ६. २८७.१) इति चतुर्थमन्द्रादिकम् अश्विनोः साम- संज्ञकम् ॥ ५॥

वसिष्ठस्य पज्राणि त्रीणि । पज्रस्य वा वासिष्ठस्य । सफस्य वा पाज्र्यस्य ॥ ३.६.६॥

यदा कदा च मीदुपे (सा. २८८) इत्यत्र सामत्रयमुत्पन्नम् । यदाकादा (ग्राम. ८. ६. २८८.१) इति मन्द्रादिकम् । यदाकदाचमहाउ (ग्राम. ८. ६. २८८. २) इति मन्द्रस्वरादिकम् । यदका (ग्राम. ८. ६.२८८. ३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि वसिष्ठस्य पज्राणि । अथवा वासिष्ठस्य पज्रस्य सामानि । अथवा पाज्यूस्य सफस्य सामानि ॥ ६ ॥

सौभरे द्वे ॥ ३.६.७॥

पाहि गा अन्धसो मदः (सा. २८९) इत्यत्र सामद्वयमुत्पन्नम् । पाहिगाआ (ग्राम. ८. ६. २८९. १) इति चतुर्थमन्द्रादिकम् । पा । झेपाही (ग्राम. ८. ६. २८९. २) इति मन्द्रचतुर्थादिकम् । एते द्वे सौभरे सुभरि म ऋषिः ॥ ७॥