पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (३) १०१

स्वपस आञ्जिगस्य सामनी द्वे। आञ्जिगस्य दानवस्य वा॥३.३.८॥

मा न इन्द्र पग वृणक (सा. २६०) इत्यत्र सामद्वयोत्पत्तिः । मानइन्द्रा (ग्राम. ७. ३. २६०. १) इति मन्द्रादिकम् ; मानइन्द्रपरा (ग्राम. ७. ३. २६०. २) इति तृतीयचतुर्थाशिकम् आजिगस्य, अञ्जिगस्यापत्यस्य स्वपसः सामनी। अथवा दानवस्थाञ्जिगस्य संबन्धिनी ॥ ८ ॥

आष्कारणिधनं काण्वं महावैष्टम्भमभिनिधनं च काण्वं महावैष्टम्भं चैव ॥ ३.३.९॥

वयं घ त्वा (सा. २६१) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र वयंघात्वासुतावन्ताः (ग्राम. ७. ३. २६२. १) इति मन्द्रद्वितीयादिकमाद्यं साम काण्वं कण्वेन दृष्टम् आप्कारणिधनम् । एतत्सामान्ते आर्ष(?) इति निधनं गीतम् । तथा च ब्राह्मणम्-कण्यो वा एतन्सामते निधनमपश्यन्स न प्रत्यतिद् (ता. बा. ८. २. २) इत्यादि । औहोवावयंघत्वा (ग्राम. ७. ३. २६१. २) इति चतुर्थमन्द्रा दकं द्वितीय साम महावैष्टम्भम् । औहोहोहाइ । आइही। वायाम (ग्राम. ७. ३. २६१. ३) इति मन्द्रचतुर्थादिक तृतीयं साम काण्वं कण्वेन दृष्टम् अभिनिधनं नाम । अस्य साम्नः अभिनिधनं काण्वं भवति। अभिनिधनेन वा। इन्द्रो वृत्राय वज्रं प्रावर्त यत् (तां. बा. ८. १.२) इति ब्राह्मणमनुसंधेयम् । वयंघत्वोहाइ (ग्राम. ७. ३. २६१. ४) इति मन्द्रचतुर्थादिकं तुरीयं महावैष्टम्भं चैव ॥ ९ ॥

श्नौष्टीगवं च ॥३.३.१०॥

यदिन्द्र नाहुषीषु (सा. २६२) इत्यत्रैकं साम । ओहाइ । यदिन्द्रना (ग्राम. ७. ३. २६२. १) इति मन्द्रचतुर्थादिकं श्नौष्टीगवम् । श्रुष्टीगुर्नाम ऋषिः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषयब्राह्मणभाष्ये तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥