पृष्ठम्:आर्यभटीयम्.djvu/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qeY गोलपादे [ गौल० सवसज्ज्ञानरत्नवतो ज्योतिश्शास्त्राख्यात् समुद्रात् स्वमत्याख्यनावमारुढेन मया तन्मध्यं प्रविश्य तत्र निमग्नं सज्ज्ञानाख्यं उत्तमरत्नं देवतायाः स्वयम्भुवः प्रसादेन सम्यगुद्धृतम्' । स्वयम्भूपदिष्टार्थप्रकाशनमेव मया कृतमित्यर्थः । तेन तदुपदेशमूलमिदं शास्त्रम् इत्युक्तं भवति । इत्येकोनपञ्चाशत् सूत्रम् ।। ४९ ।। [ उपसंहारः ] ततश्चैवं सम्पन्नमित्यार्यया शास्त्रमुपसंहरति*- श्रार्यभटीयं नाम्ना पूर्व स्वायम्भुर्व सदा सत्यम् । सुकृतायुषोः प्रणाशं कुरुते प्रतिकञ्चुकं योऽस्य ॥ ५० ॥ पूर्वस्मिन् काले । स्वयम्भुवा वेदादुद्धृत्य' स्वग्रन्थेन लोके प्रकाशितत्वात् स्वायम्भुवम् , श्रप्रत एव सदा सत्यम्' पूर्वापरकोटिरहितम् , इदं ज्योतिश्शास्त्रम्, इदानी आर्यभटनाम्ना मया प्रकाशितत्वात् मन्नाम्ना आर्यभटीयमिति संज्ञातम्” । श्रप्रस्य* न कदाचिदप्यर्थानां ग्रन्यथाभाव इत्यभिप्रायः । तथा च गर्गः स्वयं स्वयम्भुवा दृष्टं चक्षुर्भूतं द्विजन्मनाम् ॥ वेदाङ्ग ज्योतिषं ब्रह्मसमं वेदैविनिःसृतम्” ॥ मूलम्- 1. D. सदासी[द्य] त् ; E. नित्यं rev. to सत्यम् 2. D. प्रकृतिकञ्चुका व्याख्या-1. E. सभ्यगालोकच्य (? लोक्य) 2. E. om. ततश्चैवं सम (?)- 3. A. B. C. देवादुद्धृत्य; D. वेदमुद्धृत्य ; E. स्वयंभुवादुश्रुत्य 4. C. D. E. fēri 5. A. जातम् ; B. भटीयसंज्ञम् ; C. भटीयं-जातम् ; D. भटीसंज्ञातम् ; E. भटीयं संज्ञातम् 6. B. C. for 3ē ; D. E. om. the word. 7. D. frfieger