पृष्ठम्:आर्यभटीयम्.djvu/228

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ गोलपैवे गोल० अधिकेन पुनः ग्रग्रस्तमपि विद्येत । ग्रतो ग्राह्याशेषच्छादनकाले ग्राह्यग्राहकबिम्बान्तरार्धतुल्यं तत्केन्द्रान्तरालं भवति । स कर्णः । विक्षेपो भुजा । तदग्राद् यावद् ग्राह्यकेन्द्रं’ तावत् कोटिः, स्थित्यर्धक्षेत्रवत् । एवं स्थिते यत्कोटच्यानयनादिका वासना साऽत्रापि स्थित्यर्धानयनादिवद् योज्या । शेषं लम्बनादि सर्वं पूर्ववद् ज्ञेयम् । श्रप्रयं च विमर्दः चन्द्रग्रहण एव प्रायेण सम्भवति, यतस्तत्र ग्राहकबिम्बार्धं महत् ।। सूर्यग्रहणे* पुनः सूर्येन्दुबिम्बयोः समत्वात् न सुलभो विमर्दः । यदा इन्दोरतिनीचस्थित्या बिम्बमहत्त्वम् , अर्कस्यात्युच्चस्थित्या तदल्पता, स्फुटविक्षेपः शून्यः, तदा एव {सम्भवति । ग्रत एव सूत्रकारेण चन्द्रग्रहणमित्यधिकृत्य स्थित्यर्धाद्यानयनमुक्तम् ।। इति द्वाचत्वारिंशत् सूत्रम् ।। ४२ ।। [ ग्रस्तप्रमाणम् ] अथ ग्रस्तप्रमाणानयनमाह तमसो विष्कम्भार्ध शशिविष्कम्भार्धवर्जितमपोह्य । विक्षेपाद्यच्छेर्ष न गृह्यते तच्छशाङ्कस्य ॥ ४३ ॥ ग्राह्यविष्कम्भार्धन हीनं ग्राहकस्य बिम्बार्ध विक्षेपात् त्यक्त्वा यच्छिष्ट तद् ग्राह्यबिम्बेऽग्रस्तप्रमाणं भवति । ग्रत्र वासना-मध्यग्रहणकाले तावत् छायाविम्बकेन्द्रात् समदक्षिणोतररेखायां शशिबिम्बकेन्द्र भवति । परमग्रासश्च। तस्मिन्नेव काले भवति । एवं स्थिते यदा शशिबिम्बं सर्व छायाबिम्बे'ऽनुप्रविष्ट, तदा तद्विम्बकेन्द्रान्तराल ग्राह्याधींनग्राहकार्धसमं भवति । मध्यग्रहणविक्षेपश्च तावानेव । एवं च ग्राह्याधींनग्राहकार्धतुल्यो विक्षेपः सर्वग्रास धुवक;' । ग्रतोऽस्माद् ध्रुवकादधिके’ मूलम्- 1. A. B. C. D. विष्कम्भार्धात् व्याख्या-1. E. ग्राहककेन्द्र 2. B. C. स्थित्यर्धं 3. C. E. valè 4. E. नयनमार्ययाऽऽह 5. B. बिम्ब 6. A. B. C. t gi, and D. ğ for Sği 7. A. सर्वत्र ग्रासवाचकः (wr.) 8. D. sterettetet 9. A. ध्रुवकेन्द्रादघिके (wr.)