पृष्ठम्:आर्यभटीयम्.djvu/206

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዓሄ¥ गोलपावे [ गोल० बन्धः । तेन तद्धानितुल्यः कन्योदयक्षेपः । एवं द्वितीयः पाद:* उत्क्रमात् चरदलसहितेन दिवसपादेनोदेति। श्रप्रथ तृतीयः पाद:* । तत्रापि तुलान्तस्य दक्षिणतः स्थितत्वात्, क्षितिजस्य च दक्षिणोन्नतत्वात्, स्वस्तिकानन्तर्याच्च कन्याप्रतिबन्धतुल्यः तत्रापि प्रतिबन्ध इति तदुदये प्रथमचरदल प्रक्षिप्यते । एवं वृश्चिकोदयप्रतिबन्धः सिहप्रतिवन्धतुल्य इति तदुदये द्वितीयं प्रक्षिप्यते । धनुप्रतिबन्धश्च ककिसम इति तृतीयं चरदल तस्मिन् प्रक्षिप्यते। एवं क्रमेण चरदलयुत: तृतीयः पाद उदेति । मकरादित्रिकं तु यथोत्तरमुत्तरापक्रान्तं, क्षितिजवृत्तं च उत्तरावनतम् । ग्रत:ं तेषामुदयानुकूल्यं चापालितुलाप्रतिबन्धसममिति तदुदयेभ्यस्तृतीयद्वितीयाद्यचरदलं क्रमेण शोध्यते । ग्रतोऽन्त्यः पादः उत्क्रमतश्चरदलहीनेन दिवसपादेनोदेतीत्युपपन्नम् । ननु 'प्राणेनैति कला भम् (गीतिका० 6) इत्यत्र कलासादृश्यं प्राणानामुक्तम् । श्रप्रथ* कथं कलानां प्राणानां च वैलक्षण्यं प्रतिपाद्यते” । उच्यते-तत्र कृत्स्नापमण्डलकलासंख्यया' घटिकावृत्तगतसमस्तप्राणसंख्यायाः? साम्यमुक्तम् । इदानीं उभयत्रावान्तरव्याप्ति:* निरक्षसाक्षयोः प्रदश्र्यते° इति न विरोधः । इति सप्तविशं सूत्रम् ।। २७ ।। | इष्टकालशङ्कुः ] इष्टकालशङ्क्वानयनमार्ययाऽऽह स्वाहोरात्रेष्टज्या क्षितिजादवलम्बकाहतां कृत्वा । विष्कम्भार्धविभक्ते दिनस्य गतशेषयोः शङ्कुः ।। २८ ॥ sqrsat-1. A. B. C. fặđìqqIà 2. A. B. C. qđìq\{Ta:; D.E. qđĩa: 3. A. B. C. om. 3āT: 4. E., a C. Sfèqēgà 6. D. om. Trifiqar A. B. C. ties at A. B. C. Itfitti: (B. rev. to safet:) B. प्रदृश्यते