पृष्ठम्:आर्यभटीयम्.djvu/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १७ ] देवादीनां दिनप्रमाणम् ፃ ጸፂ पश्यन्ति देवदैत्या रविवर्षार्धमुदितं सकृत् सूर्यम् ॥ शशिगाः शशिमासार्धं पितरो भूस्था नराः स्वदिनम् ॥ (ब्राह्मस्फुटसिद्धान्तः, गोलाध्याय:, 8) इति । श्रयमभिसन्धिः-विषुवद्वृत्तादुत्तरतोऽपमण्डलप्रथमार्धं तिष्ठति । द्वितीयं तदर्धं दक्षिणतः । विषुवद्वृत्तं च देवदैत्यानां क्षितिजम् । तेनापवृत्तस्य प्रथमार्धं देवानां क्षितिजादुपरिस्थं सदा दृश्यम् । द्वितीयमधःस्थितमदृश्यम् । दैत्यानां विपरीतम् । एवं च ग्रपमण्डलाद्यर्धस्थोऽर्कः क्षितिजादुपरिस्थितत्वाद् देवानां सदा दृश्यः । श्रतस्तेषां तत्षड़ाशिभोगकालोऽहः । द्वितीयाधों न दृश्यः । तेन तावती रात्रिः । दैत्यानां विपरीतम् । विषुवत्स्थितोऽकॉऽधॉदितो देवान् प्रदक्षिणं करोति' । ततः क्रमेण राशित्रयभोगान्ते चतुविशतिभागोन्नतो भवति । ततः कक्र्यादेः प्रभृति क्रमेण क्षितिजासन्नो भवति, यावद् द्वितीयस्वस्तिकम् । तत्र च क्षितिजासक्तः परिभ्राम्य ग्रस्तमेति । दैत्यानां च उदितस्तान् ग्रप्रदक्षिणं करोति, धनुरन्ते चतुविशतिभागोन्नतः । पुनस्तदा प्रभृति क्षितिजासन्नो भूत्वा ग्रस्तमेति । देवानां चोदेति' । श्रप्रतो रविवर्षार्ध देवानामहरित्युपपन्नम् । ये तु शशिमण्डले श्रमावास्यान्तकेन्द्रोपरिस्थाः पितरः, तेषां तदा श्रप्रकस्योपरिस्थितत्वात् मध्याह्नः । ततः क्रमेण यदा शशिनः प्राग्गमनेनार्कः पश्चाद्राप्शित्रयमवलम्बते शुक्लाष्टम्यधे तदा अस्तमेति । यदा षड्राश्यन्तरितस्तदा ग्रर्धरात्रं पूणिमान्तें । यदा राशिनवकान्तरितः। तदा कृष्णाष्टम्यर्धे पूर्वस्यां दिश्युदेति। 'पुनरमावास्यान्ते मध्याह्नगो भवति । एवं भूमिस्थाने चन्द्रं परिकल्प्य ‘देवदैत्यानामिव शशिमण्डले तत्र स्थितानां पित्तुणां दिनप्रमाणं योज्यम् । मनुष्याणामपि स्वोदयात् स्वास्तमयं यावद् एकमहः । न तं नियम्य वक्तुं शक्यते, देशभेदानियतत्वात्' । तच्चोत्तरत्र प्रतिपादयिष्यामः ।। इति सप्तदशं सूत्रम् ।। १७ ।। --ــــــــــــــــــــ۔۔۔۔۔۔ ۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔۔ व्याख्या-1. E. प्रदक्षिणीकरोति 2. D. चोदयं भवति 3. D. E. श्रप्रर्धरात्रः पूणिमान्तः 4. E. om. the rest of the com. on the verse. 5. A. C. अमावस्यन्ते 6. D. adds Higst 7. D. देशभानियतत्वात्