पृष्ठम्:आर्यभटीयम्.djvu/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १५ ] भचक्रस्य दृश्यावृश्यभागी ዓ፥\9 महाद्रिदुमाद्यन्नतपदार्थरहितो देशः सम उच्यते । तस्माद्देशात् कारणात् तत्स्थैरित्यर्थः । समदेशस्थितैर्द्रष्टृभिः' भूव्यासः पञ्चाशदधिकं सहस्रम् । तदर्धेन पञ्चविशत्युत्तरशतपञ्चकेन योजनेनोनं* भगोलस्य ज्योतिश्चक्रस्यार्धं दृश्यम् । तेनैव भूव्यासार्धेनाधिकं ज्योतिश्चक्रस्येतरमर्ध* भूम्या छन्नम्, श्रप्रदृश्यमित्यर्थः*।। एतत्प्रदर्शनाय भूपृष्ठप्रसारितं सूत्रमाकृष्य” पूर्वस्वस्तिकादुपरि घटिकामण्डले भूव्यासार्धावच्छिन्ने' प्रदेशे पूर्वतो परतश्च पूर्वापरायतं बध्नीयात्। एवं दक्षिणोत्तरमण्डले दक्षिणोत्तरस्वस्तिकयोरुपरि तावत्येव प्रदेशे दक्षिणोत्तरायतं सूत्रं वध्नीयात्, यतो भूपृष्ठव्यवस्थितस्य' दृष्टिः प्रसारितसूत्रानुसारेण याति । श्रतः सूत्रोपरिस्थं दृश्यं सर्वतो भूव्यासाधोंनमेव भवति भगोलार्धम्' ।। सूत्राधःस्थमदृश्यं तु सर्वतो° भूव्यासार्धाधिकमेव भगोलार्धं भवतीत्युपपन्नम् । श्रोत्रेदं त्रैराशिकम्---यदि " श्रादित्यकक्ष्याया:'1 खखषड्घन-(21600)- प्राणा लभ्यन्ते, भूव्यासार्धयोजनैः कियन्त इति । ग्रधििधकेन चत्वारः प्राणा लब्धाः । तेन द्विगुणेन सर्वदा ग्रहः क्षीयते, यतः करणागतदिनारम्भात् तावदन्तरं* कालमतीत्य दृग्गोचरो रविर्भवति । करणागतदिनान्ताच्च तावतः कालात्पूर्वमेव श्रदृश्यो भवति । ग्रहभुक्तावपि त्रैराशिकम्-यदि खखषड्घन-(21600)-प्राणैः चन्द्रभुक्तिर्लभ्यते, चतुभिः प्राणैः कियतीति । लब्धा नव विलिप्ताः श्रौदयिके क्षेप्याः, श्रप्रास्तमयिकात् त्याज्याः, यतस्तावद् भुक्त्वा स्वदेशाकाँदयिको भवति । अभुक्त्वा चास्तकालिक:"*। मन्दगतीनां न किच्चिदन्तरं विदधाति'। इति पञ्चदशं सूत्रम् ।। १५ ।।॥ व्याख्या-1. A. C. समदेशद्वैष्ट्टभि: (wr.) 2. D. E. tr. योजनशतपठचकेनोन्नँ 3. A. इतरार्घ; E. इतरदर्ध 4. A. श्रदृष्टमित्यर्थः 5. A. C. om. आकृष्य 6. A. C. व्यासार्धपरिच्छिन्ने 7. A. C. भूपृष्ठावस्थितरुय 8. E. tr. : भगोलांधर्व भवति ; A.C. ध 9. A. om. Tafsî 10. A. TET 11. A. C. D. arearraf 12. D. तावन्तर ; E. तावन्त 13. E. चास्तमयकालिक: 14. D. विदध्यादिति ме – а