पृष्ठम्:आर्यभटीयम्.djvu/176

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ লীলােলাই [ ফীল০ उक्तं च--- वृक्षस्य स्वच्छाया यथैकपाश्र्वेन भवति'। दीर्धा च । निशि निशि तद्वद् भूमेरावरणवशाद् दिनेशस्य ॥ बृहत्संहिता, 5. राहुचारः, 9 इति द्वितीयं सूत्रम्। २ ।। (बृहत्संहित हुचारः, 9) [ विक्षेपमण्डल ग्रहाणां पाताश्च ] विक्षेपमण्डलसंस्थानं तत्सञ्चारिणश्चार्ययाऽऽह अपमण्डलस्य चन्द्रः पातादू यात्युत्तरेण दक्षिणतः । कुजगुरुकोणाश्चैवं शीघोच्चेनापि बुधशुक्रौ ॥ ३ ॥ चन्द्रः अपमण्डलस्य प्रथमपातात्प्रभृत्युत्तरेण, द्वितीयपातात्प्रभृति वक्षिणेन गच्छति । कुजगुरु°कोणाश्चैवं यथा चन्द्रोऽपमण्डलस्य स्वपातद्वयात् सौम्ययाम्यतः। चरति, एवं भौमजीवमन्दा ग्रपि स्वाद्यात्पातादुतरत:, द्वितीयाच्च दक्षिणतो गच्छन्ति । शीघ्रोच्चेनापि बुधशुक्रौ कविज्ञौ पातात्प्रभूत्यपमण्डलस्य सौम्यतो याम्यतश्च शीघ्रोच्चेन हेतुना गच्छतः । तेन यदा स्वस्वशीघ्रोच्चे स्वस्वाद्यपातसमे भवतः तदा विक्षेपाभावः । यदा त्वाद्यात् पातात् राशित्रयान्तरिते भवत: तदा यत्रतत्वस्थावप्येती स्वपठित विक्षेपेणापमण्डलस्योत्तरेण तिष्ठत: । यदा द्वितीयपातसमे शीघ्रोच्चे तदाऽपमण्डल एव तिष्ठतः । यदा तस्माद्राशित्रयान्तरिते तदा याम्यत:* स्व‘पठितभागे तिष्ठतः । पुनः प्रथमपातसमे विक्षेपाभावः । श्रत एषां विक्षेपमण्डलानि षट् । एवं स्थानानि ज्ञेयानि । ग्रत्र स्फुटचन्द्रे पातसमे विक्षेपाभावः । कुजगुरुशनीनां तु स्फुटमध्यमे, ज्ञभृग्वोः शीघ्रोच्चे मन्दफलसंस्कृते । तदुक्तम् मन्दस्फुटात् स्वपातोनाद् प्रहाच्छीघ्रात् ज्ञशुक्रयोः ॥ (लघुमानसम्, 3. 6) मूलम्- 1. C. D. गुरुकुज FafET-1. A. A- ; gap for af ; C. As- ; gap for fl ; D. afEft 2. C. TEST rev. to IgG ; D. EST 3. C. om. ITTFTēT: 4. D. E. om. Ta