पृष्ठम्:आर्यभटीयम्.djvu/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः १८ ] प्रतिमण्डलसंस्थानम् १०३ ।। प्रतिमण्डलस्य मध्यं घनभूमध्यादतिक्रान्तम् । १८ । पूर्वप्रदशितेन कक्ष्यामण्डलेन तुल्यपरिमाणमेषां ग्रहाणां प्रतिमण्डलम्' ॥ तस्य प्रतिमण्डलस्य मध्यं घनरूपाद् भूमध्यादतिक्रान्तं ग्रतिक्रम्य स्थितम् । कक्ष्यामण्डलस्य त्रैराशिकेन व्यासार्धमानीय भूमध्यमेव मध्यं कृत्वा लिखितं वृत्तं कक्ष्यामण्डलं नाम° । तेनैव व्यासार्धेन भूमध्याद् वक्ष्यमाणमन्तरमतिक्रम्य तत्र केन्द्रं कृत्वा यद्वृत्तमालिख्यते तत् प्रतिमण्डलं भवति । इत्यष्टादशं सूत्रम् । १८ । [ स्फुटमध्ययोरन्तरम् | प्रतिमण्डलभूमध्ययोरन्तरप्रमाणं मध्यम°स्फुटान्तरप्रमाणं चाह'- प्रतिमण्डलभूविवरं c . व्यासार्ध स्वोच्चनीचवृत्तस्य । R वृत्तपरिधौ ग्रहास्ते s मध्यमचाराद् भ्रमन्त्येव ! १६ ॥ प्रतिमण्डलमध्यस्य भूमध्यस्य चान्तरालं स्वकीयस्वोच्चनीचवृत्तस्य व्यासार्धम् । उच्चनीचवृत्तानि सर्वेषां ग्रहाणां झार्धेनापवर्त्य दशगीतिकायामुपदिष्टानि ‘झार्धानि मन्दवृत्तम्' (गीतिका० 10) इत्यत्र । तत्र स्वकीयस्योच्चनीचवृत्तस्य त्रैराशिकेनानीतं व्यासार्ध भागात्मक प्रतिमण्डलमध्यस्य भूमध्यस्य चान्तरालप्रमाणं भवति । ते' ग्रहा वृत्तपरिधौ स्वोच्चनीचवृत्तपरिधौ मध्यमचाराव् भ्रमन्ति । स्वोच्चनीचवृत्ते खखषड्घन (21,600) कला'परिच्छिन्ने सर्वे स्फुटग्रहा: स्वमध्यमया गत्या* प्रतिदिवसं गच्छन्ति' । स्वकेन्द्रभुक्तितुल्यमध्वानं प्रतिदिवसं गच्छन्तीत्यर्थः । एवमेकोनविशं सूत्रम् ।। १९ ।। मूलम्- 1. D. E. चारं (D. चारात् rev. to चारं) a Teat-1. D. E. add Haft 2. E. om. FTP 3. A. om. Het ; C. D. E. Het 4. E. चार्ययाह 6. A. doit for à : 8 E. Om SF 5. A. B. C, tr. : व्यासार्ध त्रैराशिकेनानीत 7. D. E. Tą 9. A. मध्यकालगत्या ; B. मध्यय गत्या 10. B. Hapl. om. ITGEft Et " to fHeil "GGrsteå, next line.