पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीमदार्यभटाचार्यविरचितम्

आर्यभटीयं

गार्ग्यकेरलनीलकण्ठसोमसुत्वविरचितेन
भाष्येण समेतम् ।


(द्वितीयो भागः)

अथ कालक्रियापादः ।

अनादिनिधनं कालं तल्लिङ्गग्रहतारकाः ।
नत्वा भुवं च सर्वत्रेहानुमा तस्य दर्श्यते ॥

 यच्छेषतयात्र लौकिकगणितन्यायमशेषं गणितपादेन [१]प्रत्यपीपदत्, तमेव कालं ज्योतिर्गतिविशेषैरनुमापयितुं कालक्रियापाद आरभ्यते । तत्र मन्त्रार्थवादेतिहासपुराणेषु लोके च प्रसिद्धः कालविभाग पुत्र क्षेत्रविभागेऽपि मूलं निरूप्यमाणे, इति प्रसिद्धस्तद्विभाग एव क्षेत्रेऽतिदिश्यते वर्षमित्यादिनार्याद्वितयेन

वर्षं द्वादश मासास्त्रिंशद्दिवसो भवेत् स मासस्तु ।
षष्टिर्नाड्यो दिवसः [२]षष्टिश्च विनाडिका नाडी ॥ १ ॥
गुर्वक्षराणि षष्टिर्विनाडिकार्क्षी षडेव वा प्राणाः ।
एवं कालविभागः क्षेत्रविभागस्तथा भगणात् ॥ २ ॥

 इति । यथा वर्षं (स्या १ स्वा)वयवभूतैर्द्वादशभिर्मासैरारब्धं स मासः पुनर्न तथा तावातिथैरंशैरारब्धः, स्वावयवभूतैर्दिवसैस्त्रिंशतैवारब्धः । अत स्त्रिंशांशा एव स्वावयवा दिवसा इत्युभयत्रावयवावयविसम्बन्धगतो भेदस्तु शब्देन द्योत्यते । षष्टिर्नाड्यो दिवस इत्यत्रापि तु शब्दोऽनुवर्तनी (च/यः), अस्यापि पूर्वस्माद् भिन्नत्वात् । षष्टिश्च विनाडिका नाडीत्यत्र च शब्देनातः परं विभागसाम्यं द्योत्यते । एष विभागः सौरादिषु मानेषु सर्वत्र समानः


  1. 'त्यवद’ क. पाठः.
  2. ‘षष्ठिस्तु’ इति मुद्रितपाठः