पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ५५ सुत्रविप्रकर्षः कक्ष्यामण्डलगत एव । कक्ष्यामण्डले यत्र कर्णसूत्रं स्पृशति यत्र च मन्दवृत्तंमध्यमवतिष्ठते तदन्तरालज्येत्यर्थः । या पुनर्युत्तषहिर्भागस्य अहाक्रान्तप्रदेशस्यान्तरालगता ज्या खोचनीचवृत्तस्था कक्ष्यामण्डलकला प्रमिता भुजाफलाख्या च तदाता कोटिस्तादृशी कोटिफलस्यास्या । ते कर्ण साधनभूते पुनरत्र त्रैराशिकेनानेये । यदि कक्ष्यामण्डल इयान् विप्रकर्षः तदा कर्णवृत्तेऽपि कक्ष्यामण्डलकलाप्रमितः कियानिति मन्दवृत्तगतं भुजाफलं लभ्यते । अत एव मन्दपरिधेः कर्णानुरूपो विकारः सिद्धःवृत्तस्याविकारे तज्जीवानामप्यविकारात् । ततस्तद्वृत्तगतकोटिफलानयनेऽपीदमेव त्रैराशि कम् । तद्देवान्त्यफडं च कर्णगुणितं त्रिज्याहृतं श्राद्धम् । अत एव मन्द वृत्तस्यापि कर्णवशाद् वृद्धिद्वासौ । अत एव मन्दकर्णानयनेऽ(पि १) विशेषः सिद्धः । तत्र तत्कालस्फुटपरिध्यानीतानामन्त्यफलदोःकोटिफलनां त्रयाणा मपि स्फुटकक्ष्याकलप्रमितत्वात् तळासार्थस्यापि स्खकलाप्रमितस्य त्रिज्या तुल्यत्वाद् विपरीतकर्मणा तत्सदृशकलाप्रमितं कक्ष्यामण्डळव्यासाचमिहानेतुं शक्यम् । ततः कर्णत्रिज्याभ्यं कार्यं कर्म सकलं यथाक्रमं त्रिज्यया विष रीतकर्मसिद्धकक्ष्याव्यासार्धेन च कार्यम् । कक्ष्यामण्डलकलाग्नमितः कण वैवमानीयताम्-यदि विपरीतकर्मीनीतस्य कक्ष्याच्यासार्थत्वे त्रिज्यासङ्गथः कर्णस्तदा त्रिज्यातुल्ये कश्याव्यासार्थं कियान् कर्ण इति । भूताराग्रहविव रानयने अयमेव मन्दकणं विवक्षितः । ‘तेन हता त्रिज्याकृतिरयत्त्रविहितोऽविशेषकर्णः स्यात् ।” इतीदमपि कर्म तस्याभिमतमेव । ततो यथाविहितमेव त्रिज्याकर्णाभ्यां कर्म कार्यं स्यात् । गत्यन्तराभाव एव द्वाविशेषक्रिया वक्तुं नूक्ता युक्यन्तरं प्रकाशयितुं वा । अतो मन्दफलं प्रति मध्यभुजाज्याया एव कारणत्वात् तद्वृद्धिद्वासयोरेख वृद्धिहासौ । अतः पूर्वोक्तन्यायेन दोफलवृद्धिद्भासयो रसतोरेख मध्यमभोगस्य स्फुटभोगसाम्यं स्यात् । अतो मान्दे खोच्चमध्य भान्त(लै १) च पदान्त एव धनर्णसीमा । यत् पुनः कर्णभुक्लिन्यायेन कक्ष्याप्रतिमण्डलयोः सम्पात एवं धनर्णसीमेति प्रतिभाति, तच्च मन्दोच वृत्तस्य कर्णानुविधायित्वादेव बाधितम् । कयम् । तत्रेदमवगन्तव्यम् । १. ‘तमवर्षे ख. पाठः. २• शया यु' क. पाठः३. ‘म’, ख. पा.