पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ५५ "व्यासार्धसङ्ण भुक्तिर्मध्या कर्णेन लभ्यते । स्फुटभुक्तिस्रहस्रांशोः शीतांशोरप्ययं विधिः । इति भास्करोक्तकर्णभुक्त्यानययुक्त्या मध्यमस्फुटयोगार्धपदस्य ग्राह्यत्वं स्यात् । यतो योगार्धपदपरिपूर्ती कक्ष्याप्रतिमण्डलसम्पातस्थे ग्रहे कस्य त्रिज्यातुल्यत्वं, ततो गुणहारयोः साम्यान्मध्यभोग एव स्फुटभोगः स्या दिति योगार्धपक्षे युक्तिः । योजनगतेः सदा तुल्यत्वाच कक्ष्यामण्डलान्त र्बहिर्भागयोर्गतिवृद्धिह्रासौ युज्येते, इत्यभिज्ञेय तेनैवैदमुक्तं “कर्णभुक्तिस्फुटालं वा विश्लेषः स्फुटयोर्द्धयोः ।” इति । मन्दस्फुटकर्मणि मध्यमपदाधीतावेव वृद्धिह्रासौ । तद्युक्तिश्चेदानीमेव प्रदर्शिता । जीवाभुक्तिश्च तादृशी । सा च तेनैवोक्ता । ‘अन्यमौवहतां भुक्तिं मध्यमां धनुषा हरेत् ।। लब्धं स्ववृत्तसंक्षुण्णं छित्त्वाशीत्या विशोधयेत् ॥ मकरादिस्थिते केन्द्रं कर्कटादौ तु योजयेत् । मध्यभुक्तौ सहस्रांशोः स्फुटभुक्तिरुदाहृता । त पुनः ‘‘अभिन्नरूपताभुक्तेश्वापभागविचारिणः । वेरिन्दोश्च जीवानामभावाद्यसम्भवत् ॥ एवमालोच्यमानेयं जीवानुक्तिविंशीर्यते । इति निराकृत्य कर्णभुक्तेः स्फुटत्वमुक्तम् । तेनापेि कर्णभुक्तेः स्फुट त्वनिश्चयो न स्यात् , मन्दस्फुटैकर्मविरोधात् । तत्र मध्यमपदपरिपूताँ हि मध्यमस्फुटभुक्त्योः साम्यं स्यात् । तदापि कर्णनीताया अल्पत्वमेव स्यादिति विरोधः । शीघ्रस्फुटकर्मणि पुनः स्फुटपदपरिपूर्तावेव मध्यस्फुट गत्योः साम्यं स्यात् , यतस्तदैव भुजाफलपरिपूर्तिः । यद्यपि शीघ्राहु फलस्य कैवलस्य मध्यमपदान्त एव परिपूर्तिः, (तथापि) तस्यैव त्रिज्या इतस्य कर्णहृतस्य मध्यमद्वितीयपदादौ च वृद्धिरेव स्यात् । कियन्तं च कालमयनसन्धौ कोटिफलस्य वेगाधिक्यात् पदान्ते धनात्मकस्य तस्य १. ‘चोक्तम् ख. पाठः२, ‘गतां भु' क. पाठः. ३. ‘शि नः क' ख, पठः ४. ‘दवि’ क. पाठः,