पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । ५३ पक्षे शास्त्रोक्तयोजनगतसाम्यं न स्यादिति प्रथमं न्याय्यं तत्कल्पनं प्रदर्य पुनः शास्त्रोक्तस्फुटयुक्तिवैशद्यय कक्ष्यामण्डलेऽप्युच्चनीचपरिलेखना प्रोक्ता । तस्माद् ग्रहभ्रमणं च कल्पितम् । तच्चैवकारेण सूचितम् । तत्र ताराग्रहाणां पुनरुच्चद्वयं परिधद्वयं च प्रदर्शितम् । तत्र क. परिधिकक्ष्यामण्डलकेन्द्रगः, कस्मिन् प्रदेशे पुनरितरस्य स्थितिः, इत्येतद् विक्षेपानयनकर्मणा स्फुटक्रम- वशाच निर्णेतुं शक्यम् । तचात्रैव दर्शित –‘ताराग्रहविवरं व्यासर्बोहृतः स्वकर्णसंवर्गः’ इत्यनेन । तत्रायमभिसन्धिः-कक्ष्यामण्डलंकेन्द्र एष शीघ्र परिधेरपि केन्द्र, तत्परिधौ शीघ्रोचंक्रान्तप्रदेशे मन्दपरिधिकेन्द्रं च । एवं प रिधौ पुनर्मन्दोचप्रदेशे प्रतिमण्डलकेन्द्रं च । तच्चै प्रतिमण्डलमाकाशकक्ष्यायाः स्वभगणावासैयजनैस्तुल्यम् । तस्मिन्नेव प्रहविम्शमितरैः समयोजनगति “मति । तत्तुल्यमेव तत् कक्ष्यामण्डलं शीघ्रपरिधावुच्चप्रदेशे केन्द्रं कृत्वा परिलेखनीयम् । तत्रापि कर्णमण्डलं मन्दकर्णन्यायेनाविशेष्य परिलेखनयम्। तस्मिन् मण्डले ग्रहभुक्तराश्यादिकं मन्दस्फुटीकरणन्यायेन ज्ञायते । तत् कर्णमण्डलमेव शीघ्रस्फुटकमीणि प्रतिमण्डलं, शीलोचनीचवृत्तकेन्द्रमेव केन्द्र कृत्वा मन्दकर्णतुल्येन कर्कटेन वृतमालिखेत् । तच्छीनकर्मणि कक्ष्यामण्ड. लम। तस्माच्छीघ्रकर्म(? णि)ते उभे मन्दकर्णतुल्ये एव । पुनः शञ्जिकेन्द्रात् प्राग्वदेव भुबाकोटिफले नीत्वा तत् कोटिफलं मृन्दकणं मृगकर्यादिवशात् संस्कृत्य भुजाफलं व्यासाठून हत्वा तद् भुजाफी वर्गयोगमूलेन भूताराग्रह विवरेण हृत्वान्न फडं चापीकृत्य मन्दस्फुटेऽपि मेषादौ धनं तुलादावृणं च कुर्यात् । स स्कुटो ग्रहः । इत्येवं स्फुटकर्म भूताराग्रहविवरश्रदर्शनेन स् चितम् । कथं पुनरेष शीघीयैः आचार्योक्तताराग्रहविवरतुल्यः । एवं श्वस्य भूतारग्रहविवरतुल्यत्वम् । मन्दकर्णव्यासार्धस्य स्ववृत्तकलाभिः प्र मितं व्यासार्थं त्रिज्यातुल्यमेव कल्पयित्वा तत्र शीघ्रकोटिफलं सेस्कृत्य तद्भुजाफलवर्गयोगमूलमेव शीघ्रकर्णवेन पूर्वैरुक्तम् । ततस्तस्य मध्यकला प्रमितस्यैव लम्बनबिम्बकलाद्यानयन उपयोग इति स एव ताराग्रहविव रतया ग्राह्य इति त्रैराशिकमिह प्रदर्शितं – यदि व्यासार्धतुल्याभिः = = = = = == == = =

=

== = = = क + २ == == = = == १. *य ’ क. पाठः२. ‘{धं ॐ ' ख. पाठः. ३. ‘त’ के, पाठः . ४. ‘क, 'एच' ख. पाठः . ५. ‘वन्द’ क. पाठः, ६. 'घ', v. ‘ऐ, ८, 'ल' ९• ‘a’, १० कर्मणि आ' झ. पाठः ,