पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीचे सभाप्ये A * होपपत्तिः । मन्दस्फुटीकरणविपरीतकमैवात्र क्रियते । तथाहि- स्फुटी करणे प्रथमं मध्यमे विन्यस्य मृदूरं विशोध्य भुजागुणं गृहीखर्केन्द्वोस्त्रिकेण सप्तकेन च इवाशीच्या लब्धं केन्द्रे मेधादिके मध्यमऋणं, तुलादिके धनं च कृत्वा स्फुढमवगम्यते । अत्र तु मध्यमस्य साध्यत्वात् स्फुटोचयोबैन्दवृत्तस्य च ज्ञातवान् प्रथमं स्फुयन्मन्दोचं विशोध्यकनीतं भुजागुणं कर्णथानीयेन व्यासार्धेन हत्वा त्रिज्यास्थानीयेन विपरीतकर्णेन हृत्वाप्तं मध्यमोचान्तरदोर्गुणं प्राग्वदेव स्त्रपरिधिमा इवाशीत्या लब्धुमुचोनस्फुटे मेषादिके केवले स्फुटे धनं, तुलादिके ऋणं च कृखा मध्यनं साध्यत इति । नन्वत्र स्फुटकेन्द्र्यया मध्यकेन्द्रज्यानयनं नोक्तम् । नैष दोषः । यद्यत्र न स्फुटभुजाया मध्यमभुजा- त्वापादनमुक्तं तथापि स्फुटभुजाफले त्रिज्यादोःफलघाततः श्रुतिहृतमिति मध्यभभुजाफलत्वापादनमुक्तम्, उभयथापि फलसाम्यात् । एकस्यैव बहुषु गुणहारेषु प्राप्तेषु गुणचहरणमभेदात् न चरमफलस्य भेद इत्येतद्भणित पादे विस्तरेणोपपादितम् । अत एव शीत्रस्फुटेन स्फुटमध्यभानयने शीघ्रस्फुट तदुचविवरभुजां स्खपरिधिहतां चक्रागैरशीया वा हृत्वा लब्धं दोःफलं केवल मेव चापीकृत्य शीघ्रस्टे व्यत्ययेन संस्कुर्यात् । तदा स्फुटमध्यमं स्यात् । मध्यमभुजाफलं यत् त्रिज्यागुणितं कर्णहृतं तदेवात्र विपरीतकर्मणि स्फुट भुजायाः परिञ्चिकांशभ्यां लब्धामिति न त्रिज्याकर्णभ्यां तत्र किञ्चित् इत्यमस्ति, यतो मध्यमथुजायैव त्रिज्यागुणिता कर्णहृता स्फुटभुजज्या । अत एव कर्ण विनाविशेषणेनैव शीघ्रस्फुटं सेत्स्यति । अत उक्तं –‘मृदूचर हिंतादि’ति । तेन शीनियाद नीतं भुजाफलं केवलमेव चापीकृत्य शभिस्फुटे इव स्फुटमध्यममवगन्तव्यमेति च सूचितम् । अर्केन्दुग्रहणं भौमादिव्या- वृत्त्यर्थम् । तेषां दोज्यवशात् परिधिभेदात् मध्यमज्यया स्फुटीकृतस्य स्फुटज्यया स्फुटीकृतस्य च परियोमेंदत् मध्यमज्यासिद्धस्फुटपरिधौ ज्ञात एव स्फुटदोःकोटिफले अपि वेडी । तयैर्विदितयोरेव विपरीतकर्णाऽव गम्यः । तस्मिन्नागत एव स्फुटज्यया मध्यैमज्यानेया इति चक्रकदोषग्रस्त त्वात् भौमादीनां स्फुटेन मध्यमानयनं सकृत्कर्मणा न शक्यं कर्तुमित्य- भिप्रायः । सूर्येन्दोरप्यार्यभटेन पदवशात् परिधिभेदानुक्ते(न?)व सकृत् कर्म प्रवर्तते । सूर्यसिद्धान्ते पुनः-- १. ‘थाया', २. ‘योरे’ क. पाठः. ३. “ध्यज्या' ख. पाट