पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये सभाष्ये स वर्तते सा मेषादेः प्रभृति यावतिथी तस्कलसम्बुन्धि राश्यादिकं हि स्फुटमुच्यते । तदानीं ग्रहस्योचपेक्षया भगोलपार्थादुच्चनीचवृत्तव्यासा- धेनोर्वगतत्वात् स्फुटस्योच्चरेखायाः प्रभृति राशित्रयं न पूर्णम् । प्रहस्य ततस्तसार्धान्तरितत्वाद् उच्चप्रदेशात् पार्श्व एव हि राशित्रयं पूर्यते । मध्यमस्य पूर्णं च राशित्रयम्, उचदेशात् प्रतिमण्डलोचनीचयोर्मध्यगतस्वा तस्य । प्रतिमण्डलोच्यप्रदेशात् प्रभृति ग्रहाधिष्ठितप्रदेशस्थ यत् पूर्ण राशि त्रये तस्य राशित्रयस्योवस्य च योगस्तदानीं मध्यमः सङ्कथातः । ततोऽल्प मेव हि तदानीं स्फुटम् । भगोलगतोचरेखामार्गाद् ग्रहाधिष्ठितप्रदेशस्य राशित्रयान्न्यूनत्वादुचे तावदेव भूप्यं स्फुटसिद्धयर्थं न राशित्रयम् । एव- मन्यषार्धेऽपि मध्यमदुश्चासन्नवमेव स्फुटस्य । मध्यममेव च त्रैराशिकेना- नीतं, तच्च प्रतिमण्डलगतम् । यतस्तत्रैव ग्रहो गच्छति, ततस्तस्य खख षड्घनांशा यावन्तो ग्रहेण भुक्तास्तावत्य एव मध्यमकलाः । तत्रापि तुल्य परिमाणाभिरेव तत्कलाभिर्मध्यमं मेये प्रतिमण्डलगतज्योतिश्चक्रकलाभिः, तासां परिमाणसाम्याभावात् त्रैराशिकेनानेतुमशक्यत्वात् । तस्मात् प्रति- मण्डलमध्यात् प्रभृति प्रवृत्तानामराणां विवरैस्तुल्यैरेव मीयमानग्रहगतिर्य सैव त्रैराशिकेनानेतुं शक्या । तस्मात् त्रैराशिकेनानीतं मध्यमं तैरेव प्रमितं, यतः स्वस्वप्रतिमण्डले तुल्ययोजनगतयः सदैव भ्रमन्ति । तस्मात् तस्यैव त्रैराशिकेनानेयस्वाद् ग्रहभुक्तज्योतिश्चककलानामवज्ञेयत्वम् । तज्ज्ञानाय यनान्तरं कर्तव्यम् । तदेव प्रतिमण्डलस्फुटकर्मेत्युच्यते । तत्र प्रति मण्डलस्थग्रहस्य भगोलमध्यस्य च यद्विवरं स कर्णः। विवरं च प्रतिक्षणं भिन्नम् । ग्रहस्योच्चप्राप्तौ महत् नीचप्राप्तौ चाल्पं, भगोलमध्यादुच्चनीच- प्रदेशगतत्वात् तन्मध्यस्य । तरसूत्रणे हि प्रतिमण्डलपरिधभागः प्रति मण्डलेतरावयवेभ्यो भगोलमध्याद्विप्रकृष्टः, प्रतिमण्डलव्यासार्थादुच्चनीच व्यासार्धाधिकत्वात् तस्य । तस्मात् तदानीं त्रिज्यायामुच्चनीचैवृत्तव्यासार्थं । क्षिप्त्वैव कण ज्ञेयः । नीचस्थग्रहस्य भगोलमध्यस्य च विवरं प्रतिमण्ड लव्यासार्धाद् उच्चनीचव्यासार्धेनाल्पं, यतः प्रतिमण्डलमध्यात् नीचभागे उच्चनीचवृत्तव्यासार्थान्तरे । भगोलमध्यात् तत्सूत्र एव हि प्रतिमण्डल व्यासार्थं च ग्रह इति तदानीं प्रतिमण्डळव्यासार्धात् परिधिव्यासार्थेनाप १. ‘ममुच्च', २. ‘वव्या' कं पादः .