पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काल्यक्रियापादः ३३ क्रमेण नीचरेखाया अन्यपाश्र्वे विप्रकर्वः, यावतृतीयपदान्तं पुनरुल्क- मेण हासात् ! चतुर्थपदान्ते स्वोच्चमधिरोहति । ततः प्रागेव ग्रहस्य भग णधृतिः स्यात् , मन्दोच्चस्यापि गतिमवात् प्राग्गतित्वाच्च । शीघ्रोच्चत् पुनर्यत्ययेन । उच्चमानन्तरम् उच्चस्य पृष्ट एव ग्रहः, न पुनरग्रतः । यद्यपि मेषादिराश्यपेक्षया अनुलोममेव अहं गच्छति न तथाप्युच्चाहत दृष्टैः प्रतिलोमं भ्रमतीति प्रतिभातीत्यर्थः। उभयमपि तुल्यं मण्डलं कक्ष्या मण्डलं प्रतिमण्डलं च । क पुनस्तयोरवस्थानामित्यत आह-- 'प्रतिमण्ड- लस्य मध्यं घनभूमध्यादतिक्रान्तम्’ इति । अत एव कश्यामण्डलस्य मध्यं घनभूमध्य एवेत्युक्तं भवति । कियत् पुनः कक्ष्यामण्डलमध्यस्य प्रतिम ण्डलमध्यस्य (च) विवरमित्याकाङ्कायामाह –‘प्रतिमण्डलभूविवरं व्यासार्ध स्वोच्चनीचवृत्तस्थौ । स्वोच्चनीचवृत्तव्यासार्धमेव तयोर्विवरमित्येका विधा। कथं पुनरनया कल्पनया स्फुटकर्म स्फुरति । कक्ष्यामण्डलमध्यमेव भगो लम्ध्यस्थं न पुनः प्रतिमण्डलमध्यम् । प्रतिमण्डल एव ग्रहश्च अमति । तद्भ्रमणमेव च भगणैस्त्रैराशिकेनानीयते । स्वोच्चनीचवृत्तपरिधौ प्रतिमण्ड- लस्य मध्यं वर्तत इयेतच्च भूमध्यात् तथासार्धान्तरितत्वोक्तेरेव सिद्धम् । उच्चस्य गतिमवात् सर्वदैव तद्मासार्धान्तरितत्वाच्च भगोलमध्यसभान नाभिकमुच्चनीचवृत्तं कल्पयितुं शक्यम् । गतिमत्त्वं च गवांशकान् प्रथमपाताः सवितुरमषिां च तथा द्वा आखि सा हृदा ह्य खिच्य मन्दोच्चम् ।” इत्यत्र तथाग्रहणादेव सवितृताराग्रहाणां मन्दोच्चस्यापि सिद्धम् । शात्रा न्तरे च भगणपाठrत् तैरानयमानत्वाच्च तेषां गतिः प्रसिद्धेव। तस्माद् गणितानीतं वा परीक्ष्य प्रदर्शितं वा तन्मुन्दोच्यं कस्मिन् राशौ कतिथे त्रिंशांशे कलायां वा इति ज्ञाते सति तद्दिशिं (ल? प्र)तिमण्डलस्योच्चप्रदे शावस्थितेस्तन्मध्यस्यापे तत्सूत्रगतत्वातुं तेन भुक्तं भगोलराश्यादिकमेव तदुच्चमित्यतगम्यते । तस्मात् प्रतिमंण्डलवृत्तोऽचत्रदेशस्थे ग्रहे त्रैराशिका नीतो मध्यमं एव स्फुटः । एवं मध्यमस्य नीचसाम्येऽपि । ताभ्यां विरा श्यन्तरितत्वे पुनर्मध्यमस्फुटयोर्महान् भेदः स्यात् । भगोले यस्य कलायां १, ‘त’ २. ‘शि. स' ख. पाठः .