पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । २७ आधारशून्योऽपि तथैव सर्वा धारो धरित्र्या ध्रुव एव गोलः ॥ उक्ष्णत्वमर्कशिखिनोः शिशिरत्वमिन्दौ काठिन्यमश्मनि नभस्वति चवलवम् । नैसर्गिकी च पयसि द्रवता तथैव निहंतुखमवनेः स्थितिरन्तरिक्षे ।” इति । कक्ष्यामश्च सिद्धान्तेष्वेकधैव प्रदश्यते -- ‘शशिबुधसितार्ककुजगुरुशनिकक्ष्यावेष्टितो भकक्ष्यान्तः । भूगोलः सत्वानां शुभाशुभैः कर्मभिरुपात्तः । इति ॥ १२-१५ ॥ एतत्कक्ष्याकमनुसारेणैव हि कालहोराद्याधिपत्यं च प्रहाणमिति फलभागेऽपि क्रमः भेदः फलति न केवलं गणितभाग एवास्योपयोग इत्याह सहैते होरेशशः शनैश्चराद्य यथाक्रमं शीघ्राः। शीघ्रक्रमाचतुर्था भवन्ति सूययाद् दिनपाः ॥ १६ ॥ इति । शीन्निक्रमः कालहोरायामपि क्रमः । शीघ्रक्रमाकुंचतुर्थी एवं दिनपाः । तच्च कालहोरानुसारेणैव दिनाधिपत्यं, यतोऽहोरात्रे चतुर्विंशतिः कालहोराः, तासु सप्तभिः क्षपितासु तिस्र एवावशिष्यन्ते, ततश्चतुर्विंश्याः परायाः परेद्युरादिभूताया आधिपत्यं शीत्रक्रमाच्चतुर्थस्यैव हि युज्यत इति आदिकालहोराधिपतेरेवे दिनाधिपत्याच्चतुर्थ एव दिनाधिपतिः परेद्युः । एवं मासाधिपत्यमपि वर्तमानसाचनमासे य आद्यः कालहोराधिपः (तस्यैव)। एवमब्दाधिपतिश्च । अत एवाह सूर्यसिद्धान्ते लब्धोनरात्रीरहिता लङ्कायामार्धरात्रिकः । सावनो द्युगणः सूर्याद् दिनमासाब्दपास्ततः । सप्तभिः क्षपितः शेषः सूर्याद्यो वासरेश्वरः । मासाब्ददिनसंख्याप्तौ द्वित्रिश्नौ रूपसंयुतौ ॥ सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षभौ ।” इति । एवमहर्गणानयनं ग्रहमध्यमानयनमपि कालहेराबाधिषयमपि प्रदर्शि = = - -.-.-.-. -. - - - - - - - १९ २० २ - - - - १. ‘त्रि’ =. पादः