पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभधेये सभाष्ये ननु श्रीमद्भागवते ध्रुवस्यैव मेघस्थानीयत्वमुक्तम् । नैष दोषः । यतो गोलोक्षमध्यश्रोता भूः, तदग्रप्रोते च ध्रुवतारे इति ध्रुवयोर्युवश्च मेधीस्थानी- यत्वमस्त्येवेति भावः । ध्रुवद्वयसम्भवश्च ज्योतिश्शास्त्रे सर्वत्रैव प्रदर्शितः । यथा सिद्धान्तशेखरे “ध्रुचद्वयीमध्यगतारकाशितं चलद् भचक्रे जलयन्त्रवत् सदा । विधिः ससर्जनलपैष्णमध्यगैर्मुहैः सहोपर्युपरि व्यवस्थितैः ।” इति । यथा भगणादिसंख्यासु मन्वन्तरयुगपरिमाणे च विप्रतिपत्तिः, न तथा कक्ष्यात्मादौ भूम्याद्याकारस्वभावयोश्च ज्योतिश्शास्त्रकर्तृणां विप्रति पतिः । पुराणेष्वेव हि तत्र परस्परं विप्रतिपत्तिरियभिप्रेत्याह श्रीपतिः । आदर्योदरसन्निभा भगवती विश्वम्भरा कीर्तिता कैश्चित् कैश्चन कूर्मपृष्ठसदृशी कैश्चित् सरोजाकृतिः । अस्माकं तु कदम्बवृक्षकुसुमग्रन्थैः सभा सम्मता सर्वत्रासुमतां च येन निचिता तोयस्थलस्थायिनाम् ।” इति । ज्योतिश्शास्त्रप्रतिपाद्यभूपरिमाणकारादेः प्रत्यक्षानुमाना(र्थल भी थी) त्यादिप्रमाणमूलत्वात् पुराणानां तत्प्रदर्शनस्यान्यपरत्वादर्थवादत्वात् तत्र तापर्याभावाच्चायं पक्ष एव साधीयामित्यभिप्रेत्याह स एव “चन्द्रादित्यग्रहणमुदयास्तौ युतिश्च ग्रहाणां भृङ्गनामस्तुहिनमहासश्चित्रकर्म प्रभायाः। एतैरस्मादुदितपरिधेः पञ्चभिः प्रत्ययैश्च प्रत्याख्याता बहुपरिधितानन्तता चेयमुर्याः । धर्ता धरिया यदि हन्त मूर्त स्तस्यापरस्तस्य पुरस्ततोऽन्यः । एवं हि तेषामनवस्थितिः स्यात् ततो हि कल्प्या भुव एव शक्तिः । नभस्ययस्कान्तमहामणीनां मध्ये स्थितो लोहगुडो यथास्ते । १. ‘धि ’ झ. पाठः२. ‘लहॅम' ख. पाठः