पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ आर्यभटीये सभाष्ये। “योजनानि शतान्यष्टौ भूकर्णा द्विगुणानि तु ’, ‘जिला भूव्यास’ इत्युभयत्रापि भूव्यासस्यैतावान् भेदः । ततः सूर्यसिद्धा तोक्तव्यासात् त्र्यंशोनेन भाव्यमेतद्व्यासेन । ततो यदल्पस्वं षोडशयोजनै स्तावतैव वैषम्यं स्यादुभयोः, तयोजनैः पञ्चविंशस्या च । तेन लम्वनलि- सासु नवांशेन कलामात्रमेवन्तरं स्यात् । नतिलिप्तसु ततोऽप्यल्पमेव भारते वर्षे । “सार्धानि षट्सहस्राणि योजनानि विवस्वतः । विष्कम्भो मण्डलस्येन्दोः साशीतिस्तु चतुश्शती ।” अर्केन्द्रबिंज्ञा गिण’ इत्यत्रापि नातीव वैषम्यं स्यात् । पञ्चदशाधिकं योजन शतमेव सूर्यव्यासेऽन्तरं, तेनापि कलामानमीषदधिकं कलार्धमेव । साशी तिस्तु चतुःशतीत्यत्रापि कलाठून न्यूनमार्यभटोक्तलिप्तामानं , सूर्यबिम्बस्य कलाधेनाधिक्यं च । अतस्तत्संयोगस्य तुल्यत्वादुभयत्रापि तुल्यमेव सम्य कर्घम् । तेन स्थित्यर्धादौ न विशेषः । समस्तग्रहणे मध्य(त)मस्के च महा नेवे भेदो दृश्यःबिम्बमानविश्लेषयोः कलाधिक्याद् भेदस्य । तत्र सूर्यबिम्बस्य शतांशेऽपि दृश्ये महानेव रश्मिसरः, किमुत त्रिंशांशस्य दृश्यत्वे । ततस्त न्मते समस्तग्रासेऽपि एतन्मते मध्यतम(स्)को रविईश्यः, तन्मते मध्यतम स्कत्वे तु एतन्मते महान् परिधिभागो दृश्यः । स च सर्वैः प्रत्यक्षेण विसष्ट मुषलष्टुं शक्यः । आर्यभटोऽथार्धरात्रिके सूर्यसिद्धान्तोक्तादप्यत्समानं सूर्यबिम्बमाहेति भास्करवचनादवगम्यते “अट्टिशतगुणा व्यासो योजनानां भुवो रवैः । खाधाब्ध्यङ्गानि शीतांशोः शून्यवस्वब्धयस्तथा ।” इति । तत्र चन्द्रौ सूर्यसिद्धान्तसमौ । रविविष्कम्भस्तु सूर्यसिद्धान्तो तादपि न्यूनो विंशत्या योजनैः । तस्मादौदयिकादार्धरात्रिकयोजनानां पञ्चत्रिंशदुत्तरशतेन न्यूनो भानुबिम्बः । चन्द्रव्यासस्तु सार्धसप्तयोजना धिकः । अतो भटोक्ततस्तयोरुभयोर्बिम्बमानभेदज्जायमानो ग्रहणविशेषः पूर्वोक्तादपि महान् । तस्य समस्तग्रहणस्य मध्यतमस्कस्य च कादा चिकत्वाद् भूतलेऽल्पप्रदेशसम्बन्धित्वाचैव विप्रतिपत्तिः संशयश्च युज्यते । तत् कतरस्य सौक्ष्म्यं कतरस्य वा स्थौल्यमिति कचित् कदाचित् केन