पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ 6 चेति मण्डलमहत्वं तदवयवानां राश्यादीनामपि महत्त्वं स्यात् । अत एव शनैश्चरस्य दिनभुक्तिः कलास्मकेन मापकेन मीग्रिमानत्वाद् द्विसङ्घ, च न्द्रस्य दशोनाट्शती इत्येतावन् भेदः। योजनात्मिका गतिरष्यानेतुं शक्या । तस्या अप्येवं नियमसद्भावादिति । ग्रहकक्ष्यानयनं ताभिर्मथ्यमानयनं चाह भास्करः । ‘‘इन्दोर्गणाः खखवियद्रसभृन्दनिम्न व्योम्नो भवेयुरिह वृत्तसमानसङ्ख्याः । इष्टग्रहस्य भगणैर्गगनस्य वृत्तं भङ्क्वाथ तस्य परिधिं लभते समन्तात् ॥“ इति। सप्तमाध्याये कक्ष्यानयनं प्रदर्शितम् . प्रथमाध्याये पुनस्ताभिर्दिनयोज नैश्च मध्यमानयनमप्युक्तम् - अम्वरोरुपरिधिर्विभाजित भूदिनैर्दिवसथोजनानि तैः । सङ्गणय्य दिवस/नथाहरेत् कक्ष्यया भगणराशयः स्वया ॥“ इति । यावन्तमाकाशप्रदेशं रवेर्मयूखा अभिद्योतयन्ति, तावानिह प्रदेशो- ऽस्बरशब्देनाभिधीयते । अन्यथा आयुक्तमपरिमितखादाकाशस्य प्रमाणाभि धानम् । स यदा भूदिनैर्विभज्यते, तदा दिवसयोजनान्यवाप्यन्ते । तैयीत दिवसान् सङ्गणय्य स्वया कक्ष्यया हरेत् ।तदा भगणराशयः स्युः । तत्तद्भ गणहरणानन्तरमेव राशीनां बहुत्वं, ततः प्रागेक एव राशिः, दिनयोज नभुक्तेरतीतदिवसानां च सर्वेषां साम्यात् । सर्वेषां साधारण एक एवं राशिः । यद्वा भगणराशयः भगणाश्च राशयश्च । तत्र राशिशब्दो भागादीना मप्युपलक्षणार्थः। अयमर्थः - कक्ष्यया भगणा लभ्यन्ते । तच्छेषात् क- क्ष्या(?)द्वादशांशेन राशयः, तच्छेषात् तत्रिंशांशेन भागः । एवं तत्तच्छे घात् तत्तत्षष्टशृशेन कलादयश्च लभ्यन्ते । तत्र चन्द्रकक्ष्यायामेव लिसा योजनानां निरवयवत्वं, तलिप्तदशांशस्यैव योजनत्वाङ्गीकारात् । सूर्यसि- द्वान्ते पुनश्चन्द्रलिप्तपञ्चदशांशस्यैव योजनत्वाङ्गीकारः । अत एवोक्तं ‘तिथ्याप्त मानलिप्तिका' इति । चन्द्रकक्ष्यागतानां योजनानां पञ्चदशहरणेन तत्कलालाभ उक्तः । एवं तत्रोक्ताध्यर्धयोजनसममवैकं योजनामिति मन भेदात् संख्याभेदो न विरुध्यते । अत एव –