पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । १९ पॅरात् सङ्ख्यामागे तार्याभावाद् उदाहरणत्वेनैव तत्रदर्शनम् । अतः स्वयमुक्तानां तासां परस्परविरोधो न दोषाय भवति । उदाहरणं हि बहुधा प्रदऽर्यमानं न दुष्यति ।। ११ ॥ तत्र दृग्गोलगनानां प्रथमममगमत् तैत्र संख्याविशेषंग्रहाणां भगलप्रदेशावशेषा अज्ञानाय तकापरिस,पनष्टि हेयमिति तद्युक्तिप्रदर्शनाथाह षष्टश्च सूर्याब्दानां प्रपूरयन्ति ग्रह भपरिणाहम । दिव्येन नभःपरिधिं समं भ्रमन्तः स्वकक्ष्यासु ॥१२॥ मण्डलमल्पमधस्तात् कालेनाल्पेन पूरयति चन्द्रः । उपरिष्टात् सर्वेषां महच महता शनैश्चरी ॥ १३ ॥ अल्पे हि सण्डलेऽल्पा महति मह्नान्नश्च राशयो ज्ञेयाः। अंशाः कलास्तथैवं विभागतुल्याः स्वकक्ष्यासु ॥ १४ ॥ भानामधः शनैश्चरसुरगुरुभमकतयुधचन्द्राः । तेषामधश्च भूमिभैधीभ्ना खमध्यस्था ॥ १५॥ इति । अनेनापि गीतिकापादे शशिराशयष्ठ चक्रे तेंऽशकलायोजनानि यवसगुणः। प्रणेनैति कलां भं खयुगांशे ग्रहजवो भवांशेऽर्कः ॥“ इत्येकयार्ययोक्तमेव विवृणोति । शशिराशयष्ठ चक्रे शशिनश्चक्रे भगणाः ठ द्वादशकृत्वः कृता एव युगे शशिभुक्ता राशयः स्युः । ते यवशगुणः क्रमादंशकलायोजनानि स्युः । तानि च शशिभुक्तानि । एवमन्येषामपि क्षेत्रविभागः । भगणात् प्रभृति राश्यादिविभाग एकवैव सर्वत्र, योजनानामेव केवलं भेदः, तेषामेव नियतपरिमाणत्वात् । राश्यादयः पुनः कक्ष्यासु नाना परिमाणा एव । विभागस्य तुल्यत्वात् सर्वत्र योजनानां न तथा विभाग- साम्यम् । चन्द्रकक्ष्यायामेवैका कळा दशभिर्योजनैरारब्धा, शनैश्वरकक्ष्यायां प्रायशः सहस्रचतुष्टयमिता । मी ज्योतिश्चक्रे प्राणेन कलामेति । ज्योति श्चक्रे निःश्वसपरिच्छिनेन कालेन एकां कलां परिभ्रमति । एककला तुल्यं प्रदेशं कास्न्यैन याति । अत्यन्तसंयोगे द्वितीया । अपवर्गे तृतीया च। खयुगांरो ग्रहजवः । खशब्देनाकाशकक्ष्या विवक्षिता । सा च युगग्रहयोजन १. ‘थी' ख. पाठः