पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालक्रियापादः । १७ लार्धमपि परिपूर्णम् । इदानीमयनचलनं अति न किञ्चिदपि वक्तव्यं परी क्ष्यैव निर्णयखात् । यदा पुनः कतिचिदयनचलनांशाः सन्ति (तदा) तदानी न्तनैस्तेऽपि वक्तव्या एव । यथा मयेदानीं बुधभृगुकुजगुरुशनिनवरषदा गवांशकान् प्रथमषाताः । सवितुरमीषां च तथा द्वा आखि सा इदा इय खिच्य मन्दोचम् ।” इति श्रुमादिपातमन्दोचानां गतिमखेऽपि तदुभगणाननुक्वा तदंशा एव वक्ष्यमाणप्रकारेण परीक्ष्यवगतः पठिताः, अतः परमपि गणपरम्परया परीक्ष्यैव ते निर्णीया इति प्रदर्शनार्थम् , एवमेव मगधादिभिः बोधायना दिभिश्च स्वकालभवमेवयनचलनं प्रदर्शितम्, अय(न?ने) पश्चा(दि १) क्रियाकालसिद्ध्यर्थं, न पुनस्तद्भणितं प्रदर्शितम् । अतः परं परीक्ष्यैव ज्ञेयं तदिति तेषामपि भाव इत्यभिप्रायः । एवमनेनापि तदानीमयनचलनाभावः सूचितः । गोलपादेऽपि मेषादेरित्यत्रायनचलनाभावादेव हि ‘मेषादेः कन्यान्तं सममुदगि’त्यपमण्डलापयानप्रकार उक्तः । यत् पुनर्भयार्धरात्रिक दयिकयोर्मुदिनसङ्ख्ये त्रिशत्यन्तरिते प्रदर्शिते, तदपि दिव्याब्ददशकेन त्रैराशिकेनानीयमानानां मध्यमानामुभयथापि साम्यादेव । अतः परं वैषम्यमेव प्रतिदिनं तयोः । तस्मॉदतः परं परीक्ष्यैवास्मच्छिष्यैर्बहादिमध्यमा मन्दो च्चांशादयश्च निषेया इति ते परीक्षायां नियोज्यन्त इति चाभिप्रायः एवंभूतमभिप्रायमैच्छादयन्नाह श्रीजैष्णव एकादशे परीक्षाध्याये औदयिकाद् दिनभुक्यार्धत्रिकं मध्य(मा १ में)न्यूनम् । कतरत् स्फुट(मिति) निश्चितमन्योः स्फुटमेकमपि नातः ॥“ इति । औदयिकास्तमयिकयोस्तदानीमेव ग्रहमध्यमसाम्यम् । पुनः प्रतिदि नमैौदयिकादार्धरात्रिकं सर्वेषां मध्यमं न्यूनमेव, दिनभुक्त्या भिन्नया औ. दयिकाद् भूदिनादास्तमयकथं देनस्य त्रिशत्याधिक्यात् । तुल्या अपि युगप्रहकळा उभाभ्यां हियमाणा भिन्ना एव स्युः । तस्यार्धरात्रिकस्य भू दिनस्याधिक्यात् तद्भुक्तिश्वयस्य अन्या इति प्रतिदिनं हीयमानमार्ध रात्रिकं मध्यमं राश्यादिभिरपि च महता कालेन न्यूनं भविष्यति इत्येकेनै ३. ‘र्थमेव', २• ‘ब', ३. ‘म’ क. पाठः. ४. ‘स्य भूदि' ख, पाठः