पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्यभटीये संभाध्यै वायुस्कन्धानां ससानामितरेतरसंश्लिष्टत्वात् सप्तभिर्वायुस्कन्धैव्यप्त एव ब्रह्माण्डकटाहान्तर्गताकाशः कृत्स्नोऽपि । यद्यन्तरान्तरा यकिञ्चिद् विवरं स्यात् तत्रैव वयोः कस्यचिच्चलनं सम्भवति । तच्च न युक्तं सदागतेः सर्व त्रैव व्याप्तेः । तथा सति तत्स्कन्धानां सप्ता(न)तिरेकात् तदभावश्च दर्शितः। 'गियिङश कुवायुकक्ष्यान्ये' ति कुवायुकक्ष्या पञ्चसप्तत्यधिकशतत्रयोत्तरसह स्त्रत्रयसङ्कथा । कथं वायुकक्ष्याया ग्रहकक्ष्यावत् सङ्कयोपदेश युज्य(ते) वायोः सर्वत्र व्याप्तत्वात् । तन्मध्यपरिणाहस्य वा तत्पर्यन्तपरिणाहस्य वा अवान्तरप्रदेशस्य कस्यचिद् वेयेतस्य संशयस्य निराकरणार्थम् अन्येत्यु क्तम् । प्रवहवायुसन्निकृष्टावयववा(न)यं परिणाहः । किञ्च वायुगोलमध्यस्य भूमध्यस्थ च विप्रकर्षे सति विषुववेशगतानामपि तद्वशत् तद्दर्शनादर्शन कालयोः क्रमेण न्यूनातिरेकौ सम्भवत इति चरख्यतिरेकेणापि दिनरा(व्योमें) दः स्यात् । भूमेर्देष्ट्राभिमुखचलने दिनस्य न्यूनत्वं रात्रेराधिक्यं च । यदा पुनर्दापेक्षयाधोगमनं भूमेस्तदा वैपरीत्येन च स्तः । एवंभूतो विकारो न कदाचित् कापि केनचिदुपलभ्यते । ततः सदापि वायुस्कन्धमध्यगतैव भूरिति वायुस्कन्धात् तदपेक्षया भुवश्च न चलनं युक्तम् । भगोलस्य तु वायुस्कन्धापेक्षयान्यादृशं चलनं प्रसिद्धमप्यस्येव । "त्रिंशत्कृत्वो युगे भांगैश्चक्रः प्राक् परिलम्बते । इत्यादिग्रन्थसन्दर्भाण तप्रकारस्य प्रदर्शीतत्वात् । ‘माघमासे धनिष्ठादिरुतर(णे ? ऍ)ति भानुमान् । प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । अविष्ठाश्चर्कतो वा स्यादुत्तरायणसंज्ञितः । कालः सपार्षपर्यन्तं याते भानावितीरितम् ॥“ इत्यादिपरमर्षिवाक्यैरपि तचलनं सिद्धम् । प्रभाकरश्चाह वसुदेवादिसापर्धादयनं मुनयो जगुः । मृगकर्यादितो दृष्टं कथं तद्धि गतैर्विना । इति । तत्र विप्रतिपन्नान् प्रति तत्समर्थनपरं वाक्यं वराहमिहिरोऽपि संहि लायामाह – १. ‘में भ', २, ‘हि, ३ श। वा' र्क, पाठः. ४: ‘स’ च पाठः