पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीनां साधितम् । तदा ग्रहसामान्ये युगे चतुर्थपादस्य वर्तमानत्वाद् ग्रह सामान्ययुगविवक्षायां दुष्षमवापत्तेः । ये पुनगीतिकासु पठितानां गतिमतां द्वयोर्दूयोर्युगाख्या योगाः मीनान्तभवाः, ते पञ्चचत्वारिंशद्वेदभिन्नः । तैर्भगणवियोगैस्तेपाम् अवान्तरयोगाश्व त्रैराशिकेनानेयाः । तद्वशाचोरसर्पि ण्यषसर्पिण्या अवस्थे स्तः । कस्य पुनः सावस्था । सा ज्योतिःसम्बन्धिन्ये वेति प्रकरणादवगम्यते । ज्योतिषां गतिीन प्रकृता । तत्र चाविशेषेणो क्तत्वात् कृत्स्नस्यैव भगोलस्य । तस्येन्दूचदित्येकोऽवधिः । अवध्यन्तरं पुनः किम् । इन्दूचदित्यभिविधौ चेयं पञ्चमी । इन्चप्राप्त्यन्तरा उत्स पिणी तस्माप्यनन्तरमपसर्पिणी । (उत्सर्पिणी) कस्य पुनरिन्दूचमपसर्पिणी कस्य पुनरिन्दूच्चम् । सन्निकर्षविप्रकर्षयोर्भगोलस्योत्सर्पिण्यपसर्पिण्यौ । सूर्ये ...... त्कर्षः । ...... उच्चप्राप्तेः प्रभृति नीचयोगान्तमपकर्षः । भुवमपेक्ष्य सन्निकर्षो विप्रकर्वश्व विवक्षितौ । यतो भूमध्यमधऊर्चदिशोर वधिः ततो भूमध्यात् प्रभृत्येवोध्वगमनं युक्तम् , ऊध्र्यदिशस्तत एव प्रवृत्तेः । तद(न)न्तरमधोगमनमपि युक्तम्, इत्येतन्माधवोक्तेश्च सिद्धम् । सदैव प्रवहन्तर्गर्भभूतावहवायुस्कन्धमध्यगतैव भूः । तस्माद्वायुस्कन्धस्य भगोलस्य च प्रकृत्यैकत्रैव घनमध्यम् । तस्यैवम्भूतो विकारोऽस्ति, (अथ) वा गोलमध्यापेक्षया भगोलमध्यस्य । एवं परस्परसन्निकर्मविप्रकर्षात् सर्वे वामप्यवयवानां संयोगवियोगौ स्तः । तस्मात् तयोः कतरस्यचिच्चलनम् । एवं भगोलस्य वा वायुगलस्य वा । तच्च भगोलस्यैव युज्यते, धरिया ब्रह्माण्डकटाहमध्यवर्तित्वोक्तेः, आवहस्य च विश्वम्भरया विशेष्यमाणत्वात् । 'विश्वम्भरापवनमाघहमाहुरेके' आवडैश का १द्)ीनिरूपणेऽपि तन्मध्य गतत्वं सिद्धं विश्वम्भरायाः । अवागावहतीत्यावह उच्यते । अवाग्दिशेऽव विश्व विश्वम्भरेव । अतो विश्वम्भरा स्वेनैव वायुना तेन समन्ततो वस्तूनि सर्वाणि (अवाङ्मुखमावहति । अत आवहवायुः विश्वम्भरावयुरिति च संज्ञाद्वयमुपपद्यते । तद्ध्वंगतः प्रवहस्तु समन्तत एव वस्तूनि वहति । सर्वाणि वस्तूनि भ्रामयन्नेव वहति इति प्रवहस्कन्धगतानां वस्तूनां श्रमः कदाचिदपि (न) विश्रान्तिरिति तद्वहनस्य प्रकर्षात् प्रवहशब्दवाच्यत्वम् । ३. ‘ते च' क. पाठः. २. ‘णोति त’ ख. पाठः . ३. ‘गौ । त', x. .थिंकरों' क. पाठः r =