पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
66
आयुर्वेदसूत्रे

 क्षवर्णज्ञापकं दन्तपङ्क्तिप्रदेशपद्मं त्रिंशत्सिरावृतम् ॥ ४३ ॥

 मातुराहाररसाज्जातं दन्तपङ्क्तिपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 पञ्चदशसिरावृतं कपोलपद्मं रवर्णदेवतात्मकं गर्भाशये प्रादुर्भवतीत्याह-- रेफेति ।

 रेफोत्पादकं कपोलपद्मं रवर्णदेवतात्मकम् ॥

 रेफदेवतात्मकं कपोलपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 आदिक्क्षान्तवर्णाधारकाङ्गपद्मं पादाद्यङ्गाधिष्ठितं वर्णोच्चारणप्रयत्नजातवर्णाद्यनुभवज्ञानविषयकताल्वोष्ठपुटव्यापारजातपवनप्रयत्नप्रेरिताङ्गज्ञापकवर्णज्ञानविषयकज्ञानवत्त्वात्, यन्नैवं तन्नैवं यथा घटः । स्वरितशब्दविषयकज्ञानं ताल्वोष्ठपुटव्यापाराधीनसंस्कारजातवर्णानुभवविषयकं ज्ञानेच्छाप्रयत्नजातवर्णानुभवज्ञानविषयकत्वात् यन्नैवं तन्नैवम् । इयं शब्दविषयप्रवृत्तिः इच्छाज्ञानविषयिका, समर्थप्रवृत्तिजनकत्वात्, यथा घटः । एतदनुमानचतुष्टयं सर्ववर्णानां तत्तदङ्गाधिष्ठितविषयकं भवति ।

 सरन्ध्रकाभ्यन्तरधरास्सप्तशतसिरा आस्यं च तत्प्रदेशमावृत्य ताल्वोष्ठपुटव्यापारभेदकर्मणां वर्णानां उत्पत्तिकारणं, तद्ज्ञानादिकर्मव्यतिरेकेण वर्णानि नोत्पद्यन्ते । अन्यथा वीणानादवत्तन्त्रीणां यावद्दुष्टताडनात्पवनेन नखजातकर्मणा तत्तद्वर्णजनकहेतुभूतत्वं भवतीति वीणायन्त्रशरीरे तत्तद्वर्णोत्पादकं तत्तत्प्रदेशस्थिततत्तद्वर्णजनकनिबन्धनं कृत्वा तावद्वर्णजनकाङ्गुष्ठ