पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
65
द्वितीयप्रश्नः

 द्विसिरावृतशवर्णदेवतात्मकं तालुद्वयपद्मं रसनेन्द्रियगतलालारूपजलजनकं व्याचष्टे-- षेति ।

 षवर्णोत्पादकतालुद्वयपद्ममेकैकसिरावृतम् ॥

 तालुप्रदेशाधारकद्विसिरागतपवनेन षवर्णं श्रोत्रेन्द्रियं प्राप्य ताल्वोष्ठपुटव्यापारसामग्रीसान्निध्ये भवतीत्यर्थः ॥

 पञ्चाशत्सिरावृतमक्षिपद्मं सवर्णाधारभूतं जायत इत्याह-- सेति ।

 सवर्णज्ञापकमक्षिप्रदेशगतपद्मं चतुःपञ्चाशत्सिरावृतम् ॥ ४० ॥

 तत्तज्जनाक्षिपद्मं सवर्णज्ञापकं गर्भाशये आविर्भवतीत्यर्थः ।

 सरन्ध्रकाभ्यन्तरद्विसिरावृतपक्षप्रदेशपद्मं आविर्भवतीत्याह-- हेति ।

 हवर्णोत्पादकं पक्षप्रदेशपद्मं द्विसिरावृतम् ॥

 मातुराहारादनाज्जातं हवर्णदेवतात्मकं जायत इत्यर्थः ।

 सरन्ध्रकाभ्यन्तरधरद्विसिरावृतळवर्णदेवतात्मकं अपाङ्गदेशपद्ममाविर्भवतीत्याह-- ळेति।

 ळवर्णोत्पादकमपाङ्गदेशपद्मं द्विसिरावृतम् ॥

 मातुराहाररसाज्जातं मातुरपाङ्गपद्मं गर्भाशये आविर्भवतीत्यर्थः ।

 एकैकसिरावृतं द्वात्रिंशद्दन्तपङ्क्तिपद्मं क्षवर्णदेवतात्मकं जायत इत्याह-- क्षेति ।

 AYURVEDA.
9