पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
59
द्वितीयप्रश्नः

 गघवर्णजनकमेढ्रप्रदेशस्त्रिषष्टिसिरावृतः ॥ १९ ॥

 गर्भाशये पिण्डं यथा भवति तथा मातुराहाररसजातं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं पुंवत्पिण्डं यथा दृश्यते तन्मेढ्रपद्माज्जायत इति वक्तव्यम्, तस्य मातुरङ्गाभावत्वेन मेढ्रपद्मस्यायोग्यत्वात् । एतदाविर्भावकथनमयोग्यमिति न वाच्यम् । रेतोऽधिकत्वात् पुत्रो भवतीति न्यायात् । शुक्लशोणितसन्निपातो योनिरिति लक्षणवचनाच्च । एतयोरैक्यं योनिः । तद्वचनं तत्तदङ्गाविर्भावकथनं मातुराहारपरिणामवशात् पुंनिष्ठरेतस आधिक्यं यत्र भवति तत्र मेढ्रपद्मस्य हेतुत्वात् शुक्रशोणितसान्निपात्याविर्भावकथनं तत्तदभिवर्धनं च । स्वं स्वं स्वोष्मणास्रवद्रसात्मकं पुन्निष्ठाङ्गाविर्भावं तत्सान्निपात्याभिवर्धनं तस्यापि योनिलिङ्गस्यापि मेढ्रपद्मत्वात् तज्जातत्वकथनं तदङ्गाभिवर्धनं च युक्तमित्यर्थः । पुन्निष्ठमेढ्रपद्मं स्त्रीनिष्ठयोनिपद्मं चेत्युभयस्यापि मन्मथगेहत्वात् । रेतआधिक्यजातोपाधिकवशाच्च । दीर्घमेढ्रहेतुकपद्मस्य पुन्निष्ठत्वेन तदङ्गाभिवर्धनं युक्तमिति तात्पर्यम् ।

 स्त्रीनिष्ठसिरावृतमेढ्रपद्माधारभूतपृष्ठदेशपद्मं विविच्य दर्शयति-- ङेति ।

 ङोच्चारणहेतुकं पृष्ठदेशगतं पद्मं चतुस्त्रिंशत्सिरावृतम् ॥ २० ॥

 सरन्ध्रकाभ्यान्तराधारचतुस्त्रिंशत्सिरावृतं ङवर्णदेवताधारभूतपृष्ठदेशपद्मं ऊर्ध्वाङ्गसर्वदेहभारं भजत् पादजानुजङ्घोरुकटिश्रोणिभ्यां गतागतरूपचलनात्मककर्म कुर्वत् मिथुनकर्मोपकारकफलमात्रमेव भजत् अपानपवनाधारकं जठरानलप्रदेशाधा