पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

आयुर्वेदे द्वितीयप्रश्नः.


गुहान्तरनिवासिनीं गुरुकृपाकटाक्षादमी
सहायमनुचिन्तकास्सरसिजेषु षट्सु क्रमात् ।
गुहामयभिषक्तया सततमष्टवाग्वादिनीं
महात्रिपुरसुन्दरीमिह मुहुर्नमस्कुर्महे ॥

 रोगत्वं प्रतिपादितम् । रोगनिवृत्तिद्वारा धातुपोषणं वक्तुमुचितं भवति । तथा सति दोषप्रकोपनिवर्तकं रसदि विना लोके निवर्तकद्रव्याभावः सुप्रसिद्ध इत्यस्वरसादाह-- द्विरसेति।

 द्विरसार्थरसहीनार्थहीनरसवाननिलनिवारकः ॥

 स्वादुरसौ रसपचनप्रकोपनिवर्तकः । पित्तप्रकोपोऽपि स्वादुरसेन भाव्यः । एकस्य द्रव्यस्योभयदोषनिवर्तकत्वं वक्तुं शक्यते । द्विरसार्थहीनाधिकरसद्रव्यं पवनपित्तप्रकोपनिवर्तकम् । अधिकस्वादुरसद्रव्यं पित्तप्रकोपनिवर्तकम् । तस्मादधिकरसद्रव्यं पवनं हरतीति सूत्रे प्रतिपादितम् ।

कषायतिक्तमधुराः पित्तमन्यैस्तु कुप्यते । इति ॥

 ननु शरीरं सप्तधातुमयं, तज्जन्यमपि सप्तधातुमयं भवति शरीरे सिराः कति सन्ति ? आशयाश्च मर्मस्थानसन्धयः ? तत्सर्वं विहाय पैतृकास्त्रयः मातृजाश्चत्वारो धातव एवाभिहिता इत्याशयं मनसि निधाय तत्रस्थितसिरामर्मास्थिसन्ध्याशयानलादीनि व्याचष्टे-- षडिति ॥